Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 520
________________ FR०-१२३]. हेतुविाप्रकरणम् । अतिशयवती तु प्रज्ञा प्रतिहेतत्पेक्षिणी दृष्टाः । तेनानिश्चयः प्रतियोगिनः संभवासंभवयोरिति वस्तुतोऽसम्भवत्प्रतिहेतुस्वलक्षणस्यानिश्चितत्वात् न कश्चित् हेतुः स्यात् । . ___ अथाप्रदर्शितप्रतिहेतुः, यथाह " यदा तर्हि शब्दत्वं नित्यं अभ्युपमा च्छति तादायः हेतुरेक स्यात् यचत्रः अनित्यत्वहेतुं कृतकत्वादि 5. कक्षिन दर्शया". इति । इदमिदानी, सुमहळ्यसनमायातम्-गुरुभिरभिहितत्वादप्रकाश्यम् , न्यायममुपालयद्विरसंवरणीयमिति कष्टतरं व्यसनं कथं निर्वोढुं शक्यतः ? 1 तापदयं हेतुः वस्तूनि स्वसाध्यप्रकृतीनिः कृत्वा तत्प्रमाणकान् पुरुषान अभ्युदयनिःश्रेयप्ताभ्यां च योजयित्वा पुनश्च प्रतिभावता पुरुषेण हेत्वन्तरनिदर्शनेन, उन्क्रीलितसाधनसामर्थ्यः तानि वस्तूनि तांश्च पुरुषान् तद्भावसम्पदः स्वसाध्यप्रकृति10. त्वसम्पदोऽभ्युदयनिःश्रेयससम्पदश्च प्रच्याव्य भ्रष्टराज्य इव राजा तपोवनं गच्छतीति किमत्र वयं ब्रूमः । - पुरुषप्रतिभाकृतं हि यदि साधनत्वं स्थात् तदा न किश्चित् साधममसाधर्म का । स च हेतुर्यदि स्वभावतस्तद्धर्मभावी [T: 374 b] तदा' कथमन्यथा क्रियेतः। वस्तुस्वभाका न्यथाभावस्याभावात् । उभयोश्च एकत्रभावे विरूद्धोभयस्वभाव एकः स्यात् । अतधर्म15 भावी च कथमन्यदापि साधनं कस्यचित्। तस्मात् स्वभावतः स्वस्वसाध्याविनाभाविनोर्यथोक्तलक्षणयोः कार्यस्वभावहेत्वोः प्रतिहेतोरसंभवादलक्षणमेकसंख्याविवक्षा, व्यवच्छेद्याभावात् । ज्ञानं पुनः न लिङ्गस्यात्मरूपमिति कथं लिङ्गलक्षणं भविष्यति । ... विरूपाद् हेतोरनुमेयोऽर्थोः झतव्य इति चिन्तायां: प्रतिपातरविसंवादकालिङ्ग20 स्वरूपमभिधीयते यस्य दर्शनाद् अयं साधनम् ' इति व्यवस्थाप्य तस्येष्टार्थसानिधान संप्रत्ययात् प्रवृत्तिमवलम्बते । एतस्मिंश्च यदस्यात्मरूपं तल्लक्षणम् न तु यतः पररूपाः ।। - प्रतिपत्तिजन्मनि उपयुज्यते. ज्ञाममित्येनं. लिङ्गलक्षणत्वे. प्रमेयपुरुषादीनामपि तल्लक्षणत्वं भवेतः । न हि तेष्वपि असत्पु लिङ्गिनि ज्ञानं भवति इति । निश्चितग्रहणं तर्हि न कर्तव्यम् । न । तस्यान्यार्थत्वात् । सपक्षविपक्षयोः दर्शना25 दर्शनमात्रतो गमकं हेतुमिच्छतां नैव समर्थो हेतुर्भवति सतोर्दर्शनादर्शनयोरगमकत्वदर्शनात्। ततो भावाभाक्योरेव गमको हेतुरिति ज्ञापनार्थ निश्चितग्रहणम् । तेन पररूपं लिङ्गस्य लक्षणं न भवति, [T. 375 a] तेन लिङ्गस्य रूपविशेषानभिधानात् । तौ हि भावाभावौ तद्भावसाधकप्रमाणवृत्त्या बोद्धव्यौ, उपायान्तराभावात् । . १. न्यायावि. वि. भाग २, पृ. १८० - - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 518 519 520 521 522 523