Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 518
________________ पृ. २०६-२११] हेतुबिन्दुप्रकरणम्। .. . प्रत्यक्षानुमाने हि साध्यधर्मं बाधमाने तं. धर्मिणः निष्कासयतः, तस्मिंश्च सत्येव हेतुर्भवन् तं तत्रैवावस्थापयतीति परं बत भावानाम् अस्वास्थ्यम् । . .. ____ अन्यत्र साध्यधर्मेणाविनाभावी हेतुः न पुनः साध्यधर्मिण्येवेति चेत् । ' तत् किमयं तपस्वी शण्ढमुद्राह्य पुत्रं मृगयते ? यस्य धर्मिणि असत्यपि साध्यधर्मे भावः, 5 तमुपदर्य कथं स धर्मी साध्यधर्मवानिति उच्यते । - अत एव प्रमाणाभ्यामबाधितधर्मा धर्मी इति । स्यादेतत् यदि ताभ्यामेव साध्यधर्मिणि हेतोर्विषयः न बाध्यते तदा तस्य गमकत्वम् । . . . . २तत् किमिदानी हेतोः सामर्थ्यम् ? ३अबाधयैव साध्यसिद्धेः व्यर्थो हेतुः । बाधायामपि साध्याभावस्य तेन साधनात् कुतः साधनस्य सामर्थ्यम् । साध्याभावस्य बाधक10 प्रमाणवृत्तौ [T. 372 b] अनियमे बाधकप्रमाणस्याभावः, साध्याभावस्य च संभवः स्यादिति न सामर्थ्यमबाधायाः । __न बाधाया अभावोऽबाधा । किं तर्हि ? बाधाया अनुपलब्धिः । सा च पुरुषस्य क्वचित् ‘बाधाया संभवेऽपि स्यात् इति स हेतुप्रयोगस्य विषयः । किं नु वै हेतुः बाधोपलब्धेः बिभेति न पुनर्बाधाया येन बाधामनादृत्य तदनुपलब्धौ प्रयोक्तव्य इष्टः । 15 स तर्हि परमार्थेन-'बाधा किमस्ति नास्ति-' इत्यनपेक्ष्य बाधाया अनुपलब्धौ प्रयोक्तव्यः ? किमर्थं प्रयुज्यते ! साध्यसिध्यर्थम् । स किं क्वचित् सत्यामपि बाधायां साध्यं साधयेत् येनास्या अभावनिश्चयं प्रति यत्नो न क्रियते हेतुश्च प्रयुज्यते । एवं च सति अबाधितविष यत्वं हेतुलक्षणं न भवति । बाधायामपि सत्यामस्य सामर्थ्यात् । तथा च संशयितस्य - प्रवृत्तिर्न युज्यते। यथा च बाधाया अनुपलब्धौ तामभ्युपगम्य प्रयुज्यते तथा तदुपलब्धावपि 20 प्रयुज्यताम् , विशेषाभावात् । .. न बाधायां सत्यां हेतोः सामर्थ्यम् इति । यद्येवम् अनिर्णितबाधाऽसंभवो हेतुः, मा भूत् बाधायाः संभवपक्षे प्रयुक्तस्यापि असामर्थ्यमिति न प्रयोगमर्हति । - बाधानुपलम्भे सति [ T. 373 a ] सामर्थ्य चेन्मन्यसे । किमुपलम्भो बाधां व्याप्नोति यतो तन्निवृत्तौ बाधाया निवृत्तिः स्यात् यतो हेतोः बाधायाः सम्भवकृतम25 सामर्थ्य न सम्भवेत् ? अथ तन्निवृत्तौ बाधा निवर्तते । तथापि बाधानुपलम्भादेव १. तुलना न्याय म० पृ० १११, ६०९ । तात्पर्य० पृ. २९६० २२ २. न्यायवि.वि. पृ० भाग २,१७९ ३. पृ. २०९. पं० १। ४. तुलना न्यायमं० पृ० १११ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523