Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 507
________________ आचार्यधर्मकीर्तिकृतं [ पृ. १०७-११५ .. 'अन्यदेव संस्थानं गुणो मृदव्यात् तेन भिन्नस्वभावः कुलालमृत्पिण्डयोरुपयोगविशेष इति चेत् । उक्तमत्र । अपि च यदि संस्थानं मिनं मृदः, कुलालः किं न पृथक् करोति ? गुणस्य द्रव्यपरतन्त्रत्वात् स कथं पृथक् क्रियेत ? तत्संस्थानस्य यदि स्वभावेनैव तद् द्रव्यमाधारस्वभावम् , तत्संस्थानं वा स्वत एवाधेयात्मकम् [T. 361a ] तदा न किञ्चित् 5 कुलालव्यापारापेक्षया इति चेत् । न । ततः परस्परसम्बन्धयोग्यतां द्वयमप्येतत् प्रतिलभते, अन्यथा स्वभावत एव तथाविधसंस्थानसम्बन्धयोग्यत्वे प्रागपि योग्यता अस्तीति संस्थानविशेषेण सम्बन्धः स्यादिति । एवं तर्हि सा योग्यता मृदन्यस्य कुलालाद् भवतीति न चानयोः स्वभावभेदः । भेदे हि प्राग्वत् प्रसज्येत । अस्ति तावद् एक स्वभावत्वेऽपि एकस्यानेकप्रत्ययोपाधेयविशेषतेति किं मृत्संस्थानयोरेकत्वसाधनाय अतिनिर्बन्धेन ?। 10 तेन सहकारिणः प्रत्ययाः नैकोपयोगविषयाः कार्यस्यैकस्वभावत्वेऽपि वस्तुत इति । यथा इह कारणभेदो भिन्नविशेषोपयोगात् नैककार्यः, तथा चक्षुरादिभ्यो विज्ञानोत्पत्तौ . उन्नेयः । तथा हि-समनन्तरप्रत्ययाद्विज्ञानात् चक्षुर्विज्ञानस्यापलम्भात्मनः सतश्चक्षुरिन्द्रियाद्रूपग्रहणयोग्यताप्रतिनियमः विषयात् तत्तुल्यरूपतेति अभिन्नत्वेपि वस्तुतः कार्यस्य कारणानां भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्ति । तेन कारणभेदेपि अभेदस्तत्कार्यविशेष. 15 स्येति । . __३त एवैते कारणशक्तिभेदा यथास्वं प्रतिविशिष्टकार्यजननेऽव्यवधेयशक्तितया प्रत्युप-. स्थिताः, क्षणिकत्वात् सामग्रीकार्यस्य स्वभावस्थित्याश्रय इत्युच्यन्ते । [7. 361b] तथाहि तत् तेभ्य उपलम्भात्मकं रूपग्रहणं प्रतिनियतं विषयरूपं चेति प्रतिविशिष्टस्वभावमेकमेव जातम् । 20 .. अप्रतिरोधशक्तिकेषु अनाधेयविशेषेषु क्षणिकेषु प्रत्ययेषु. परस्परं कः सहकारार्थः ! न वै सर्वत्रातिशयोत्पादनम् सहक्रिया। का तर्हि ! एकार्थकरणं यद् बहूनामपि । यथाऽन्त्यस्य कारणकलापस्य । तदेव मुख्यं सहकारित्वं सहकारिणाम, तस्यैवान्त्यस्य कारणत्वात् । तत्र च क्षणे एकस्य स्वभावस्याविवेकात् विशेषस्य कर्तुमशक्यत्वात्, स्वभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः । भावान्तर- 25 जननेऽन्त्यत्वमेव हीयेत । ततश्च न साक्षात्कारणं स्यात् । तस्मात् न कारणस्य सहकारिभ्यो १. उत्पादा पृ०४५ ३. उसादा• पृ०४५ २. उत्पादा० पृ. ४४ । ४. पृ. १२७ पं० २०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523