Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text ________________
पृ. ११५-१२१]
हेतुबिन्दुप्रकरणम् । विशेषस्योत्पत्तिः । ते समर्था एव स्वभावतोऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिकाः येषां प्राक्पश्चात्पृथग्भावो नास्ति, येभ्यश्चानन्तरमेव कार्यमुत्पद्यते । तत्र एकार्थक्रियैव सहकारित्वम् ।
समर्थः कुतः जायते इति चेत् । स्वकारणेभ्यः । तानि एनमपरसन्निधान एव किं . 5 जनयन्ति ? कदाचिदन्यथापि स्युः ततश्च एकोपि क्वचिज्जनयेत् । अपरापरप्रत्यययोगेन
प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्यपि कुतश्चित् [T. 362 a] साम्यात् • सरूपाः प्रतीयन्ते तथापि भिन्न एव एषां स्वभावः तेन किञ्चिदेव कस्यचित् कारणम् ।
३तत्र योऽव्यवधानादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुः ।। “यस्तेषां परस्परोपसर्पणाद्याश्रयः प्रत्ययविशेषः स त तुजनने समर्थो हेतु: । अतस्तस्य 10 नित्यं नान्यत्र जन्म।
अनेन न्यायेन सर्वत्र हेतुफलभावप्रतिनियमो द्रष्टव्यः प्रतिक्षणमन्यान्यस्वभावभेदान्वयिनीषु शक्तिषु, न तु स्थिरैकैस्वभावेषु भावेषु स्वभावस्यान्यथात्वासंभवात् । समर्थासमर्थस्वभावयोः क्रियाऽक्रियाऽयोगात् । अन्यसहितः करोति चेत् । किं केवलस्यासामर्थ्यम् ? समर्थः केवल इति चेत् । किन्न करोति ? अकुर्वन् कथं समर्थः ? 15 कुविन्दादयः पटादिक्रियायां समर्था अपि न सर्वत्र कुर्वन्तीति चेत् । क्रीडनशीलो देवानां प्रियः कृतमपि पुनः पुनः कारयति, तथाहि बीजादिवदिति निर्लोठितमेव । - तस्मात् स्वभावस्यान्यथात्वासम्भवात् [ T. 362 b] तद्धर्मणः तथाभावः अन्त्यावस्थावदनिवार्यः ।
अन्त्यावस्थायां प्रागसमर्थस्य सामर्थ्योत्पत्तौ-तत्सामर्थ्यस्य तत्स्वभावत्वेऽपूर्वोत्पत्तिरेव 20 सा । अतत्स्वभावत्वे स प्रागिव पश्चादपि अकारक एवं ।
अपि च योऽसौ सकलेषु सहकारिषु करोति स तदैव कस्मात् करोति ? कुर्वन् दृष्टस्तेन दर्शनबलेन करोतीति ब्रूमः । अहो महासामर्थ्य महाप्रभावस्य दर्शनम् यदेतत् कार्यकारणस्वभावविकलान् अपि भावान् स्वभावमात्रेण नानाप्रकारेषु व्यापारेषु नियुङ्क्ते ।
यदि नाम किञ्चित् कथञ्चिद् अत्रभवतो दर्शनस्य विषयतामतिकामेत् हन्त ! अप्रसव25 धर्मकमपेतसन्तानं स्यादिति-इयं चिन्ता चित्तं दुनोति ।
न वै वयं भावानामस्मदर्शनवशात् कार्यक्रियां ब्रूमः किन्तु ते स्वभावेनैव कार्यकरण- स्वभावाः, तान् पश्यंतो जानीमहे-एते कारकस्वभावा इति ।
१. पृ. १२४. पं० २८ । ३. पृ० १३४. पं०.१९
२. पृ.१३३.५० २६। ४. पृ. १३४.पं. २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523