Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 506
________________ कृ.८३-२७] हेतुबिन्दुप्रकरणम् । प्रकाशादिभावे हेत्वन्तरमपेक्षन्ते । तदात्मनस्तादाम्याभावे नैरात्म्यप्रसंगात्। तद्वद् अस्थितिधर्मा चेत् स्वभावतो भावो निष्पन्नो न पुनस्तदात्मतया हेत्वन्तरमपेक्षते । . बीजादिवदनियमश्चेत् । स्यादेतत् बीजादयः अजकुरादिजननस्वभावा अपि सलिलादि हेत्वन्तसपेक्षणात् [ T. 360a ] न केवला जनयन्ति । तद्वत् भावोपि विनाशे स्यादिति । 5 न । तत्स्वभावस्य जननाद् अजनकस्य चातत्स्वभावत्वात् । अतएव तयोरवस्थयोर्बस्तुभेदो निश्चयः । भावानां स्वभावान्यथात्वाभावात् । तत्स्वभावस्य पश्चादिव प्रागपि जननप्रसङ्गात् । तस्मात् योऽन्त्योऽवस्थाविशेषः स एवाकुरजननस्वभावः । पूर्वभाविनस्तु अवस्थाविशेषा अङ्गुरकारणस्य कारणानि, तेभ्यस्तदुत्पतेः, तस्मान्नानेकान्तः । 10 क्षणिकेषु भावेषु अपरापरोत्पत्तरेक्याभावात् । यदि ते अन्त्याः समर्थाः, किं न जनयन्ति प्रत्येकमिति ? जनयन्त्येव नात्र अन्यथाभावः, स्वभावस्यावैपरीत्यात् । ननु तेषु सहकारिषु समर्थस्वभावेषु कार्यस्य एकेनैव जनितत्वात् कोऽपरस्योपयोगः ! ३न वै भावानां प्रेक्षापूर्वकारिता यतः । अयमस्मास्वन्यतमोऽपि समर्थः किमस्माभिः कर्तव्यम् ' इत्यालोच्य अपरे निवर्तेरन्। स्वहेतुपरिणामोपनिधिधर्माणो निरभिप्रायव्यापारा 15 एव भावाः पर्यालोचनशून्याः [ कार्ये सर्व एव न्याप्रियन्ते । तदपि कार्य सर्वेभ्य एवं जायते इति ] नोपालम्भमर्हन्ति, तत्प्रकृतेः। ___ ५ते समर्थाः किन्नापरापरं जनयन्ति इति चेत् । न । तत्रैव सामर्थ्यात् । तस्यैवैकस्य जनने समर्था इति [ T. 360b ] नापरापरजननम् इति । - मिन्नस्वभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्य एककार्योत्पत्तौ न कारणभेदात् कार्यभेदः 20 स्यादिति चेत् । न । यथास्वं स्वभावभेदेन तद्विशेषोपयोगतस्तदुपयोगैः कार्यस्वभावविशेषासङ्करात् । यथा मृत्पिण्डकुलालसूत्रादिभ्यो भवतो घटस्य मृत्पिण्डादमृत्स्वभावेभ्यो वृक्षादिभ्यो भिन्नः स्वभावः, कुलालात्तस्यैव मृदात्मनः सतः संस्थामविशेषास्मतया तदन्येभ्यो भिन्नः, सूत्रात् तस्यैव मृत्संस्थानविशेषात्मनः चक्रादिभिर्विभकः स्वभाको भवति । तदेवं न कुलालान्मृत्स्वभावता; न मृदः संस्थानविशेषः । न च तयोः शक्ति25 विशेषविषयभेदेऽपि तज्जनितविशेषभेदस्य कार्यस्य स्वभावभेदः; मृत्संस्थानयोरपरस्पसत्मसया मत्संस्थानविशेषाभ्यां तयोरप्रतिभासनप्रसङ्गात । १. पृ. १७७६.९ ३. तुझा अटस• पृ० १०४। तात्पर्य• पृ. १३५० २१ पृ. ३९०.५०८ ४. नास्ति रा. कृते। ५. उत्सादा० पृ० १५. १. उत्पादा• पृ० ४२-४३. . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523