Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text ________________
पृ.५७-७०]
हेतुबिन्दुप्रकरणम् __ [२. स्वभावहेतुनिरूपणम् । ] तत्र साधनधर्मभावमात्रान्वयिनि साध्यधर्मे स्वभावो हेतुः । अपरापरव्यावृत्तिभेदेन धर्मभेदे सत्यपि वस्तुतः लिङ्गस्वभाव एव । हेतुस्वभावे साध्यधर्मेऽन्वयव्यभिचाराभावात् [T. 358a] विशेषणमयुक्तमेव तथापि परमतापेक्षं तन्मात्रान्वयेनेति कृतम् ! 5 परे हि अर्थान्तरनिमित्तमतद्भावमात्रान्वयिनमपि स्वभावमिच्छन्ति । तेन च विशेषणेन तथाविधस्य अतत्स्वभावताम्, तस्मिन् साध्ये हेतोर्व्यभिचारं चाह । यथा. हेतुमति विनाशे कृतकत्वस्य ।
तस्य द्विधा प्रयोगः । साधम्र्येण एकः, वैधयेणापरः। यथा-यत् सत् तत् सर्वं क्षणिकम् । यथा घटादयः । संश्च शब्दः । तथा, क्षणिकत्वाभावे सात्त्वाभावः । 10 सर्वोपसंहारेण व्याप्तिप्रदर्शनलक्षणौ साधर्म्यवैधर्म्यप्रयोगौ उक्तौ ।
अत्र पक्षधर्मसम्बन्धवचनमात्रसामर्थ्यादेव प्रतिज्ञार्थस्य प्रतीतेः न प्रतिज्ञायाः प्रयोग उपदर्शितः । अप्रदर्शिते प्रमेये कथं तत्प्रतीतिरिति चेत् । स्वयं प्रतिपत्तौ प्रमेयस्य क उपदर्शयिता ? प्रदेशस्थं धममुपलब्धवतः तस्याग्मिना व्याप्तेः स्मरणे तत्सामर्थ्यादेव • अमिरत्र ' इति प्रतिज्ञार्थप्रतीतिर्भवति। न च तत्र कश्चित् । अमिरत्रेति' अस्मै 15 निवेदयति । नापि स्वयमपि प्रागेव प्रतिपद्यते किञ्चित् , प्रमाणमन्तरेणैवं प्रतीतेः निमि
ताभावात् । प्रतीतो लिङ्गस्य वैयर्थ्यम् । स्वयमेवाकस्मात् प्राक् : अमिरत्र ' इति व्यवस्थाप्य [r. 358b] तत्पतिपत्तये पश्चालिङ्गमनुसरतीति कोऽयं प्रतिपत्तेः क्रमः ? परेणापि तदुच्यमानं प्लवत एव, उपयोगाभावात् । 'विषयोपदर्शनं चेन्मतम् ; तेनैव
तावद्दय॑मानेन कोऽर्थः ? यदि प्रतीतिरन्यथा न स्यात्तदा सर्व शोभेत । तस्मादेष 20 स्वयंप्रतीतौ केनचित् विषयोपस्थापनेन विनापि प्रतियन् अस्मान् कार्यिंणो दृष्ट्वा पर्वब्राह्मण इव व्यक्तं मूल्यं मृगयते । अस्मद्वचनादपि स्वयं सिद्धमेव लिङ्गमनुसृत्य साध्यं प्रत्येति । तस्मात् कोनयोरवस्थयोर्विशेषः ? दृष्टा च पक्षधर्मसम्बन्धवचनमात्रात् साधर्म्यवत्प्रयोगादेः प्रतिज्ञावचनमन्तरेणापि प्रतीतिरिति कस्तस्योपयोगः ? स्वनिश्चयवदन्येपामपि निश्चयोत्पादनाय साधनमुच्यते । तत्र स्वयं प्रमेयोपदर्शनेन विनापि प्रतिपद्य परं 25 प्रतिपादयन्नपूर्वक्रममाश्रयते इति किमत्र कारणम् ? तस्मात् न प्रमेयस्य वचनेन किञ्चित्
प्रयोजनमन्यथापि प्रतिपत्तेरुत्पत्तेरिति । ...
१. सन्मति० पृ. ६७५०७ ३. सन्मति० पृ. ६७५.३१
२. सन्मति पृ० ६७ पं०३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523