Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 503
________________ ५४ आचार्यधर्मकीर्तिकृत [ पृ. ३५-५५ ततोऽपि विकल्पात् वस्तुन्येव तदध्यवसायेन पुरुषस्य प्रवृत्तेः । प्रवृत्तौ प्रत्यक्षेणाभिन्नयोगक्षेमत्वात् । पूर्व प्रत्यक्षक्षणे नोत्तरेषां क्वचिदभिन्नयोगक्षेमत्वात् प्रामाण्यप्रसङ्ग इति चेत् । न । क्षण[ T. 357 a ]विशेषसाध्यार्थवाञ्छायां नानायोगक्षेमत्वात् । साधारणे हि कार्ये न तेषां सामर्थ्यभेदः । अपरापरधूमप्रमितसन्निकृष्टानिषु इव अनुमानज्ञानानामग्निमात्र- 5 साध्येऽर्थे । एतेन धर्म-धर्म-लिङ्गादिविकल्पस्य प्रमाणपृष्ठभाविनः प्रामाण्यं प्रत्युक्तम् । अन्वयनिश्चयोऽपि स्वभावहेतौ साध्यधर्मस्य वस्तुतस्तद्भावतया साधनधर्मभावमात्रानुबन्धासोद्धैः । सा हि साध्यविपर्यये हेतोर्बाधकप्रमाणवृत्तिः । यथा यत् सत् तत् क्षणिकमेव, अक्षणिकत्वेऽर्थक्रिया विरोधात् तल्लक्षणवस्तुत्वं हीयते । 'कार्यहेतो कार्यकारणभावसिद्धिः । यथेदमस्योपलम्भे उपलब्धिलक्षणप्राप्तमनुपलब्धमुपलभ्यते, सत्स्वप्यन्येषु हेतुषु अस्याभावे न भवतीति यस्तद्भावे भावस्तदभावेऽभावश्च प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः तस्य सिद्धिः । कार्यकारणभाव एव यथान्तरस्य -एवं स्यात्--यत्र धूमस्तत्रावश्यमभिरिति, अभिभाव एव हि भावो धूमस्य तत्कार्यत्वमिति । अनुपलब्धावपि अन्वयनिश्चयः - असद्व्यवहारस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धिमात्र - 15 वृत्ति [ T. 357 b. ]साधनम्, निमित्तान्तराभावोपदर्शनात् । व्यतिरेकनिश्चयोपि कार्यस्वभावहेत्वोः कारणव्यापकानुपलब्धिभ्यां दृश्यविषयाभ्यां कार्यकारण- व्याप्यव्यापकभावसिद्धौ सत्यां साध्याभावेऽभावसिद्धिरुद्दिष्टविषयस्याभावोपदर्शने । अनुपलब्धिलक्षणप्राप्तस्यान्यथा क्वचिदभावासिद्धेः । अनुद्दिष्टविषयं साध्याभावे हेत्वभावख्यापनं प्रतिबन्धमात्र सिद्धौ सिध्यति इति न तत्र व्यतिरेकसाधने दृश्यविषयता - 20 विशेषणमपेक्ष्यते 1. व्यतिरेकनिश्चयोऽनुपलब्धौ उपलब्धिलक्षणप्राप्तात् सतोनुपलम्भाभावदर्शनम् । एतलक्षणो हेतुस्त्रिप्रकार एव । स्वभावः, कार्यम्, अनुपलब्धिश्चेति । यथा अनित्ये कस्मिंश्चित् साध्ये सत्त्वमिति । अभिमंति प्रदेशे धूम इति । अभावे च उपलब्धिलक्षणप्राप्तस्यानुपलधिरिति । 25 अत्रैव त्रिविधहेतौ ‘अविनाभावस्य नियमाद्' इति पक्षधर्मस्य यथोक्ता व्याप्तिरविनाभावः । न स त्रिविधाद्धेतोरन्यत्रास्ति इत्यत्रैव नियत उच्यते । २. बादभ्याय पु. १८ १. उत्पादा० पृ. ३९, ९२ ३. पृ० ८ पं० १. 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523