Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 513
________________ आचार्यधर्मकीर्तिकृतं तदतज्जन्यः स्वभावो युक्तः । एकस्वभावत्वात् । धूमाधमजननस्वभावात् भवतो धमाधूमस्वभावः स्यात् । कार्यस्वभावानां कारणस्वभावकृतत्वात् । [ T. 367 a ] अकारणापेक्षणे च अहेतुकत्वप्रसङ्गात् ।।.. __तस्माद यो धूमजननः स अग्न्यादिसामग्रीविशेषो भवतीति अग्न्यादिसामग्रीविशेषेण यः जनितः स एव धूमो भवतीति कार्यकारणयोरेवं स्वभावस्य नियमात् तद्विजातीया- 5 दुत्पतिर्न भवति । तत् यादृशं कार्य कारणाद् दृष्टमेकदा तत् तन्न व्यभिचरति । तेन सिद्धे कार्यकारणभावे कार्यस्य कारणेन व्याप्तिः सिद्धा भवति । ननु विजातीयादपि किञ्चिद्भवद् दृष्टं तद्यथा गोमयादेः शालकादिः । न विजातीया-, दुत्पत्तिः । तथाविधमेव हि तादृशाम् आदिनिमित्तम्-इति न कारणभेदः। प्रबन्धेनोत्पत्तौ शराद् 10 भवति । अस्ति च गोमयेतरजन्मनोः स्वभावभेदः रूपस्याभेदेऽपि । नहि आकारतुल्यतैव भावानां तत्त्वे निमित्तम् । अभिन्नाकाराणामपि केषाचिदन्यतो विशेषाज्जातिभेदो दृश्यते । अन्यथा हि विलक्षणाया अपि सामग्या अविलक्षणकार्योत्पत्तौ न कारणभेदाभेदाभ्यां कार्यभेदाभेदावित्यहेतुको विश्वस्य भेदाभेदौ स्याताम् । तथा हि न भेदाढ़ेद इति अभेदादपि नाभेदः । तत्र्यतिरिक्तश्च न कश्चिद्भावखभाव इत्यहेतुकत्वाद्भावानां [ T. 367b ] 15 नित्यं सत्त्वमसत्त्वं वा स्यात् । अपेक्षया हि भावाः कादाचित्काः भवन्ति । व्यवस्थावांश्च साध्येषु साधननियोगो न स्यात् । कारणशक्तिप्रतिनियमे हि किञ्चिदेव कस्यचिदेव.. साधनाय आदीयेत, नापरम्, तस्यैव तत्र शक्तेः, अन्यस्य चाशक्तेः, तयोस्तज्जननेतरस्वभावत्वेन भेदात् । तज्जननखभावविलक्षणादपि तस्योत्पत्तौ न तज्जननशक्तिप्रतिनियम इति यत् किञ्चित् यतः कुतश्चित् स्यात् । तज्जननशक्तिसाम्ये तु तदेवेति न कार्य 20 दृष्टं कारणं व्यभिचरति इति । [४. अनुपलब्धिहेतुनिरूपणम् । ] . उपलब्धिलक्षणप्राप्तस्य अनुपलब्धिः अभावस्य अभावव्यवहारस्य वा हेतुः । अत्र उपलब्धेः उपलभमानधर्मत्वे तज्ज्ञानमुपलब्धिः । तस्मादन्या उपलब्धिरनुपलब्धिः विवक्षितोपलब्धेरन्यत्वात्, अभक्ष्यास्पर्शनीयवत् पर्युदासवृत्त्या । उपलभ्यमान- 25 धर्मवे स्वविषयविज्ञानजननयोग्यतालझणो विषयस्वभावो भवति । योग्यतायाः भावस्वरूपत्वात् । तस्मादन्य उपलम्भजननयोग्य एव अनुपलब्धिः । पूर्ववत् । यत्र यस्मिन्नु१ उत्पादा० पृ. ४ २. पृ. १७२.५० ४। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523