Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text ________________
आचार्यधर्मकीर्ति कृतं
[प्र.१३५-१४
पृथगपि तथाविधविशेषारम्भः स्यात् । कार्यद्वैविध्यं च सहकारिभ्यः सञ्जनितविशेष
अक्षेपकरणशीलेन्द्रियविज्ञानवच्च
परम्परया उत्पत्तिधर्मकम्, अन्यच्च । अङ्कुरादिवत् कार्यकारणयोः स्वभावभेदात् । इति सर्वमुक्तम् ।
तत्र सहकारिभ्यः सन्तानोपकारापेक्षस्य कार्यस्योत्पादानुगुणः यद् आद्यविशेषः स तेषां संपर्ककृत विशेषजन्मा न भवति । ततः ये विशेषाः जायन्ते ते तज्जन्मानः, [T. 365a] तत्प्रकृतित्वाद् इति नानवस्था ।
तथा यद्यक्षणिकोपि अविलम्बित कार्यकर्तृधर्मा तदा पृथग्भावस्य संभवात् केवलोपि तथा स्यात् । अतत्स्वभावस्तु तदापि अकारक एव ।
3
तस्मादक्षणिकेभ्यः कारणेभ्य एकार्थक्रियया न कश्चित् सहकारित्वनिश्चयः । नापि सन्तत्या उपकारेणेति न तस्य कश्चित् सहकारीति केवलोऽपि कुर्यात् । प्रायस्तु संघातस्थायी 10 भावसंतानः सहकारिप्रत्ययैरुपजनितविशेषः स्वकार्यं कुर्वन् दृष्टो बीजादिवत् । तत् स्थिरहेतुवादिनः हेतोः प्रत्ययान्तरापेक्ष कारकस्य व्यक्तं स्वभावान्तरस्योत्पत्तिः । कारकस्वभावस्य प्रागपि सत्त्वेऽक्रिया न युज्यते ।
१ तस्माद् यो यदात्मा स स्वसत्तामात्रेण तादृशेो भवति न भूत्वा तद्भावे पराभिसंस्कारमपेक्षते इति स्वभावतोऽस्थितिधर्मणो भावस्य न किञ्चिन्नाशकारणैः [T. 365b ] | 15 स्थितिधर्मणोऽपि भावस्य स्वभावान्यथात्वस्य केनचित् कर्तुमशक्यत्वात् न नाशकारणैः किञ्चित् । तदन्यथात्वप्रतिपत्तैौ स तत्स्वभाव एव न स्यादिति पूर्व एव विकल्पः 1 स्यात् । तत्र च प्रागेवोक्तं दूषणम् 1
परस्मादन्यथाभावः सोऽपरः स्वभावः कथं तस्य स्यात् ? स्वभावभेदो हि बस्तुभेदलक्षणम् । तथा च यः स्थितिधर्मा जातः न तस्यान्यथाभावः स्यात् ।
20
एतेन ताम्रादीनामग्न्यादेः कठिनत्वादीनां द्रवत्वादिस्वभावान्तरोत्पत्तिः प्रत्युक्ता । तत्रापि पूर्वकस्य स्वरसनिरोवित्वाद्विनाशे तत एवोपादानकारणादन्यादिसहकारिकारणोपादानप्रत्ययोपजातविशेषादपर एव द्रवादिस्वभाव उत्पन्नः ।
स स्वयं स्थितिधर्मैव स्वहेतुभिर्जनितः, विनाशहेतोरसंभवे ऽवस्थामात् । तस्य परस्माद्विनाशो भवति इति । न च विनाशो नामापरः स्वभावः । भावच्युतिरेव विनाशः
T: 1
१. उत्पादा० ० ७६ | तुलना - न्यायमं० पू० ११३
२, पृ० १४० पं० २०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523