________________
पण्डितदुवैकमिश्रकृतो [ पृ. १८६. पं. ८-. देशकालव'स्तुनियत [१८६.८] इति हेतुमावेन विशेषणम् । प्रतिज्ञा . [१८६.१०] साध्यनिर्देशस्तस्याः । कृतकत्वादिपरिजिहीर्षया विशिंसन्नाह-व्यावृत्तितोऽपी[१८६.१२]ति । प्रदेशमात्रमि[१८६.१४]ति ब्रुवता परेण प्रदेशत्वसामान्यं हेतुः प्रदेशविशेषो धर्मीति दर्शितम् । 5 योऽसौ केवल[१८६.२ ३]इति । पुरोऽवस्थितघटजातीय इति द्रष्टव्यम् तस्यैव प्रकृतत्वात्। लिङ्गवज्ज्ञापकत्वादवश्यप्रत्येतव्यमित्यभिप्रायेणाह-लिङ्गभूतस्य [१८६.२५] केवलस्य प्रदेशस्य [१८६.२६] प्रतिपत्ताविति पूर्ववत् प्रतिज्ञार्थंकदेशताप्यत्र द्रष्टव्या । ततः केवलप्रदेशालिङ्गीभूतात् । . विषयविषयिभावेने[१८७.१०]तीत्थंभूतलक्षणा तृतीया । तथाविधाऽभि10 प्रायानभिज्ञा(ज्ञ)तयेति' पाठोऽवदातो यथाऽभिधानाभिप्रायानभिज्ञा(श)तयेति पाठे तु महान् क्लेशः।
प्रमेय त्वेन [१८७.१९] साध्यत्वेन । आदिशब्दादन्योन्याभावप्रध्वंसाभावयोन विरोधो मीमांसकमतेऽत्यन्ताभावस्य च ।
एते [१८८.३] प्रागभावादिरूपा भेदाः इतरप्रतीतेश्चा[१८८.६]भावांशप्रतीतेश्च । 15 तत्संयोगे [१८८.६] तेनेन्द्रियेण प्रत्येतव्यस्य सम्बन्धे । इत्थं तु [१८८.५]
यत्प्रतीयत [१८८.६] इति प्रकरणात् । तदसंयोगहेतुकमि[१८८.७]न्द्रियासम्बन्धहेतुकम् । 'ज्ञानमिति प्रकृतत्वात् । यद्वा तत्तथाविधं ज्ञानं असंयोगहेतुकं प्रकरणादिन्द्रियासंयोगहेतुकं न भवतीति । ननु भावांशयोर्भेदात् कथं 'तदन्यभाव
एवे'त्युक्तमाचार्येण इत्याशङ्कयाह-एवं मन्यत [१८८.१५] इति । तद्रूपवैकल्यात् 20 [१८८.१७] घटरूपविरहितत्वात् । तद्रूपवैकल्यं [१८८.१७] घटरूपवैकल्यम् ।
तदभावे [१८८.१८१ घटरूपवैकल्याभावे । तस्य घटादन्यस्य भावस्य प्रदेशादेः । तथा च [१८८,२०] तस्यापि घटरूपत्वप्रकारे सति। अभावांशेऽपि घटाभावोऽपि न सिद्धयति घटात्मनीवेति भावः । तत्संयोग एव [१८८.२ ४] अन्यभावसंयोग
एव। विचारयता [१८९.२] मयेति बुद्धिस्थम् । अवधार्यो [१८९.३] ज्ञातव्यः । 25 सकलत्रैलोक्यविलक्षणं [१८९.११] सर्वपदार्थव्यावृत्तम् । असांकर्येण [१८९.१२] अमिश्रस्वेन। संप्र मुग्धाकारं [१८९.५] संदिह्यमानसर्वाकारम१. देशकागवस्थानियतोS
२. अभिप्रायानभिज्ञतया S। ३. न सिद्धयेत् S.। .
१. सम्मुग्धाकार,S.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org