________________
पृ. १९०. पं. २०.] हेतुबिन्दुटींकालोकः। निश्चिताकारमिति । कामलो विद्यतेऽस्येति कामली [१८९.१५] तस्य । तत्परिच्छदाभावः [१८९.२०] तस्य पुरोवर्तिनो भूतलादेरप्यभावस्य परिच्छेदाभावः । -- ननु च कस्यचिद्दर्शनाद्योयं क्वचित्प्राप्तिपरिहारार्थो व्यवहार इति प्रकृते अदृष्टस्य च परिहारार्थ [१८९.२३] इति व्याख्यानं कथमिव न साहसम् न ह्यदृष्टस्य दर्शनमस्ति । अथ दर्शनमित्युपलक्षणमेतत् , ततोऽदर्शना[65b]'दित्यपि द्रष्टव्यमिति 5
चेत् । तदवद्यम्, दर्शनस्यैव संकीर्णासंकीर्णरूपावभासितया विचारयितुं प्रक्रांतत्वात् , यदि चादृष्टपरिहारार्थो व्यवहारो भवेत्तर्हि कण्टकादेः परिहारार्थो व्यवहारो न भवेत् किन्तु प्राप्त्यर्थ एव, सम्यक्ज्ञानपूर्विका च सर्वहानोपादानलक्षणा पुरुषार्थसिद्धिर्न स्यादिति । स्थाने पराक्रान्तं भवता केवलं विवक्षिते दृष्टादृष्टशब्दार्थे समीचीनं मनो न प्रणिहितम् , दृष्टशब्देन हि सुखमत्रविवक्षितम् अदृष्टशब्देन च तद्विपर्ययेण 10 दुःखम् , ततोयं वाक्यार्थः-कस्यचिद्वस्तुनः सुखहेतोदर्शनाद्योयं क्वचिद्देशे संवित्सामर्थ्यमाववि(भावि)स्मरणादिना दृष्टस्य सुखस्य प्राप्त्यर्थो व्यवहारः प्रवृत्तिलक्षणो यश्च दुःखहेतोर्दर्शनाददृष्टस्य' दुःखस्य परिहारार्थो व्यवहारो निवृत्तिलक्षणः स न स्यात् । सर्वत्रैव सुखहेतुदुःखहेतुविषयत्वेन संप्रमुग्धाकारत्वात्सर्वस्यैव दर्शनस्येति । अतश्चैवं यद् विनिश्चयः “ सुखदुःखसाधने हि ज्ञात्वा यथार्ह प्रतिपित्सवः ” इत्यलं बहुना । किं 15 भूतस्तदर्थो व्यवहार इत्याह प्रवृत्तिनिवृत्तिलक्षण [२८९.२ ४] 'इति यथासंख्य सम्बन्धः कार्यः । अन्यथा [१८९.२६] संकीर्णरूपाप्रतिभासनप्रकारेणाऽस्य[१८९.२६] प्रत्यक्षस्य । - ज्ञानद्वयेन [१९०.६] प्रत्यक्षानुपलम्भरूपेण । पर[१९०.१६]मिति मीमांसकमित्यवसेयम् । एवमभ्युपगमे कारितेऽपि किं फलमित्याह तथा चे[१९०.१७]ति । 20 यथाश्रुति चापरिणामाख्येन। धर्मेणे[१९०.१८]त्युक्तं द्रष्टव्यम् । भावां'शस्यैवाभावत्वेनोगतत्वादि[१९०.२०]ति । " भावान्तरविनिर्मुक्तोऽभावोत्रानुपलंभवदि"त्यादिवचनादुक्तं भावान्तरस्याप्यतुस्ययोग्यतारूपस्य तथात्वेनेष्टत्वात् । न त्वदुपगतानुपलब्धिरूपत्वमभावप्रमाणस्य भविष्यतीत्यत आह तुल्ययोग्यतारूप स्यै[१९०,२०]वेति। अन्यथा तस्य तदभावरूपत्वानुपपवेरिति भावः । 25 भवत्वेवं तथाप्येकज्ञानसंसर्गित्वानपेक्षितया भेदो भविष्यतीत्याह तुल्ययोग्यतारूपस्य [१९०.२० एतज्ज्ञानसंसर्गिण एव चे[१९०.२०]ति । अन्यथा तुल्ययोग्यता- १. भावान्तरस्यैव० .
२. स्यैक० ३ . ३. एकज्ञान,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org