________________
पृ. १८५. पं. २४ हेतुबिन्दुटोकालोकः । सम्भवी तत्कथमेवमुक्तम् इत्याशय विशेषाभिधानार्थमभ्युपगच्छन्नाह-यद्यपि चे[१८३.४]ति । शब्दार्थयोरि[१८३.५]ति । वाच्यवाचकभूतयोरिति विवक्षितम् । बुद्धिकल्पितसामान्यरूपते[१८३.५]ति प्रबुद्धसंकेताहितवासनस्य या बुद्धिः ' स एवायं यो मया वाचकत्वेन प्रतिपन्नः स 'एवायं यो वाच्यत्वेन प्रतीत' इति संकेतकालोपलब्धशब्दार्थाभेदेन स्वाकारं प्रतीयती जायते तया यद्रूपं कल्पितं सामान्यं 5 तड्पतेति विशेषविवक्षया न । तथापी[१८३.५]ति उत्प्रेक्षा समाकलनमध्यवसाय इति यावत् तस्या निबन्धनस्य [१८३.६] बीजस्य । शब्दस्वलक्षणानुभावादेव हि वाचकशब्दसामान्या(न्यो)त्प्रेक्षा भवतीति भावः । तन्मुखेन [१८३.७] वाचकशब्दसामान्योत्प्रेक्षाबीजशब्दस्वलक्षणोत्थापनद्वारेण अन्यभावस्य [१८३.१३] केवलप्रदेशादिभावस्य । अनेन च प्रागपि [१८३.१५] इत्यादिना सत्यपि 10 तदभिप्राय [१८३.१६] इत्यादिना च तदन्वयव्यतिरेकानु(काननु)विधानं तस्य दर्शितम् । भेदे सत्यसति कार्यकारणभावे अविनाभावानुपपत्तेस्तद्वारक [१८३.१६] [65a] इत्याह । । ननु यदि यद्यस्य सिद्धेनिबन्धनं तस्य तेन सह कार्यकारणभावादिकः सम्बन्धोऽवश्यं भावीत्युच्यते । न तर्हि चक्षुरादीन्द्रियं स्वविषयस्य रूपादेः प्रतिपत्तिनिबन्धनं स्यादित्यभि- 15 प्रायवान् परः प्राह-'कथं तर्हि [१८३.२८] इति । सिद्धान्त्याह-परस्परे[१८३.२८१ति । अनेन यदि नाम तयोः समकालिकयोः साक्षात्कार्यकारणभावोऽस्तीति दर्शयति । अनयोरप्येवमेव भविष्यतीत्याह-नैवमि[१८४.१]ति । इह अन्यभावे तदभावसाधने । एवं [१८४.१] अनन्तरोक्तं नास्ति । कुत इत्याह-अन्यभावे[१८४.१]ति। तदद्योगादे[१८४.१]कसामग्रयुत्पादायोगात् । अयोगश्चाभावस्य कृत- 20 श्चिदुत्पादे भावरूपताप्राप्तेस्ताद्रूप्यहानिप्रसङ्गात् घटाभावेन च विना तत्प्रदेशक्षणसदृशस्य क्षणस्याभावप्रसङ्गाच्च द्रष्टव्यः । प्रौढवादितया तत्तदुक्तमयुक्तं प्रतिपाद्य' सम्प्रत्यप्रस्तुताभिधानमस्य दर्शयन्नाह-लिङ्गलिङ्गिभावलक्षणस्य च [१८४.२] इति ।
न तु केवलो [१८४.२ ४] घटाभाव इति प्रकृतत्वात् । कैवल्यमेव दर्शयति 25 धर्मिणः कस्यचिद्गुणभावं [१८४.२ ४] विशेषणत्वमनापन्न इति ।
तदन्यस्य [१८५.२३] धर्मिणोऽभावादिति केवलप्रदेशरूपादन्यस्य । धर्मिणो [१८५.२ ४] लिङ्गाश्रयस्याभावादिति ।। १. कथमिन्द्रिय ।
२. ततश्चान्यस्य SI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org