________________
३९४
पण्डितदुवैकमिश्रकृती [पृ. १८१. ५.२७बाय्वाकाशदिक्कालारम' मनांसि सामान्यविशेषसंज्ञोक्तानि नवैवेति ।" [प्रश० भा० पृ० ३] आदि[१८१.२७]शब्दाद्गुणवत्त्वसमवायिकारणत्वावबोधेः(धः)।
तत्र [१८१.२७] अभावो(वे) गुणरूपेणैवाभावो द्रव्ये वर्तिष्यत इत्याह न चे[१८१.२८]ति। तत्र द्रव्ये रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्[त्व]संयोगविभागपरत्वा5 परत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्म शब्दाश्चतुर्विंशतिगुणाः । न
चायमभावस्तेषां चतुर्विशतेर्गुणानां रूपादीनामन्यतमः । कर्मरूपतया तर्हि तत्रासौ वर्तिष्यत इत्याह-नापी[१८२.१]ति । कर्मरूपतया [१८२.१] वर्तत इत्यनुवर्तते । कस्मान्न वर्तत इत्याह पञ्चस्वि[१८२.१]ति । उत्क्षेपणापक्षेपणावकुञ्चन
प्रसारणगमनलक्षणेषु पञ्चसु कर्मस्वनन्तर्भावात् । कथं तस्य तत्रान[64b]न्तर्भाव इत्याह 10 तल्लक्षणविरहादि[१८२.२ति । किं पुनः कर्मणो लक्षणं यद्विरहस्तस्योच्यत इत्याह एकद्रव्यमि[१८२.२]ति । भावप्रधानत्वान्निर्देशस्यैकद्रव्यत्वमित्यर्थः । आदि[१८२,३]ग्रहणेन कर्मत्वसम्बन्धः क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं गुरुत्वप्रयत्नसयोगजवं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वमसमवायिकारणत्वं
स्वपराश्रय समवेतकार्यारम्भकत्वं समानजातीयानारम्भकत्वं द्रव्यारम्भकत्वं च परिगृहीतम् । 15 सामान्यादिरूपेण तर्हि तत्रासौ वर्त्यतीत्याह-नापी[१८२.३]ति । अपि शब्दाद्विशेष
समवायपरिग्रहः । कुतस्तथा न वर्तत इत्याह तद्रपे[१८२.४ाति । एवं अवतोऽस्यायमाशयः-स्वविषयसर्वगतमभेदात्मकमनेकवृत्त्यनुवृत्तिबुद्धिकारणं हि सामान्यस्य रूपं न' चायं तथा । तथाऽन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वावि(त्वाद्वि)शेषा विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशदिक्कालात्मनःस्व(त्ममनःसु) प्रतिद्रव्यमेकैकशो वर्तमाना 20. अत्यन्तव्यावृत्तिबुद्धिहेतवः, न चायं तथा । अयुतसिवानामाधार्याधारभूतानां च सम्बन्धः
इहप्रत्ययहेतुः समवायो न चार्य तद्रूप इति । तदभ्युपगमात्त[१८२.५]स्य संयोगस्याभ्युपगमात् । पञ्चानां [१८२.९] द्रव्यगुणकर्मसामान्यविशेषाणां समनायित्वं [१८२.९] समवायाश्रयत्वम् । प्रदेशाभावेपि [१८२,१३] विशिष्टोदेशाभावेपि घटाभावसंभवात् [१८२.१३] । अनेन व्यतिरेकाननुविधानं 25 दर्शितम् । न चास्य प्रतिविषयं भेद [१८२.१८] इति अनेन चेतरकार्यधर्मातिक्रमो दर्शितः । सम्बन्धिभेदात् [१८२.१९] । सम्बन्धिनां घटपटादीना भेदात् नानात्वात् अन्यादृशत्वाद्वा । भेदे [१८२.२०] नानात्वे अन्यादृशत्वे वेष्यमाणे । तत्प्रसङ्गो भयप्र(भेदप्र)सङ्गः । समनन्तरमेवोक्तं (१)।
ननु च वाच्यवाचकभूताविह शब्दार्थों प्रकृतौ तथा बुद्धिघटिते च शब्दार्थसामान्ये 30 वाच्यवाचकरूपे न तु शब्दार्यस्वलक्षणे, न च तयोः शब्दार्थसामान्ययोर्जन्यजनकभावः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org