________________
पृ. १८१. पं. २६. ]
बिन्दु कालोकः ।
३९३
गो नोक्त इत्याह-संयोगे [१८१.२]ति । भेदेने [१८१.३ ] तरभिन्नेन रूपेण यो व्यपदेशो [१८०.३] व्यपदिश्यमानत्वं तन्त्रानादरात् । यद्वा भेदेन भिन्नेन वाचकेन यो व्यपदेशमा (श आ ) ख्यानं तत्रानादरादिति । किं पुनः समवाय एवं नोच्यत इत्याह परेषां त्वि[१८०.३ ]ति । एवं तावद्भट्टार्चटो व्याचष्ट अन्ये पुनरस्थान एवास्य मतिविभ्रमो जात इत्याचक्षते । तथाहि धूमावयविधर्मिणि पर्वते वा धूमत्वे (मवत्त्वे ) न 5 धूमत्वेन च हेतुना साग्नि[64a ] ' त्वं साध्यत इत्येकार्थसमवाय्येव धूमो हेतुरिति परे संसचते (संचक्षते) | पुरस्ताच्चायं तस्माद्धूम एवात्र धर्मी कर्तव्यः । साग्निरयं धूमो धूमत्वादियुद्योतकरमतमदर्शयदिदानीं तु तद्विस्मृत्यैवं व्याचक्षाणो वार्तिककारमप्यवज्ञयात्र (ज्ञापात्र) • मापादयतीति -किमत्र ब्रूम इति । इतरस्य [ १८१.६] धूमस्य ।
ननु चे[१८१.८] त्यादिना प्रकृतमाक्षि [प]ता सत्यं [१९८१.१०] प्रसङ्गोरनित्या - 10 (नेत्या) दिना च परिहरता अनेन यदीश्वरसेन मतानुप्रवेशेन कश्चिदन्यभावतदभावयोरमीषामन्यतमं सम्बन्धमिच्छति तदभावोपदर्शनेन स तावत्कण्ठोक्तेनैव निरस्यते । सामर्थ्याच येपि नैयायिका-‘न बयमनयोर्गम्यगमकभावं वर्णयामोऽपि तु संयुक्तविशेषणसन्निकर्षजन्मना प्रत्यक्षेण घटाभावः प्रतीयते' इत्यभिमन्यन्ते तेप्यन्यभावतदभावयोः सम्बन्धाभावेन विशेष्यविशेषणभावानुपपत्तेः कथं तज्जन्मनः प्रत्यक्षस्य वार्तापि येन तदवसेयो ऽसत्त्वा - 15 द्भवितुमर्हतीति निरस्ता भवन्तीत्यभिप्रायेणान्यभावतदभावयोः सम्बन्धाभावो विभावित इति वेदितव्यम् । अस्यैवार्थस्य पुनरुक्ततां परिहर्तुमाह पूर्वं हि [१८१.११] इति । तस्य तदन्यासंसृष्टरूपस्येत्यादिना प्रागभिहितत्वादुक्तम् । प्रत्यक्षान्तरमि [ १८१.१२ ]ति हाना दिबुद्धिव्यपेक्षया बोद्धव्यम् । न च विशेषणविशेष्यभावलक्षण एव संबन्धः । सम्बन्धेन च संबन्धान्तरं मृगणीयमिति तेन शक्यते वक्तुं षट्सु पदार्थेष्वस्यानन्तर्भावेन 20 सप्तमपदार्थोपगमयन्विप्र ( गमनप्र ) सङ्गात् दण्डदण्डिनोर्जातितद्वतोश्च विशेषणविशेष्यभावोपपत्तेः संयोगसमवायसम्बन्धयो रस्तं गमनप्रस ( सं ) गाच्च किं कुर्वच्च तत्तस्य विशेषणमित्यादिविचारासहत्वाच्चेति । एवं चास्याक्षेपपरिहारा पुनरुक्तता प्रदर्शनं चानवगतवक्ष्यमाणग्रन्थार्थस्य त्वरया चोदितस्य चोद्ये 'सत्यादितो द्रष्टव्यमितरथा संबन्धाभावो - पदर्शनग्रन्थव्याख्यानानन्तरमिदं भ्राजेतेति । 'तेन प्रदेशावयवा द्रव्यात्मानो 25 [१८१.२५] द्रव्यस्वभावाः । नवैव [१८१.२६] नवसंख्याव्यवच्छिन्नान्येव पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्ममनोलक्षणानि । तदाह प्रशस्तकरः " तत्र द्रव्याणि - पृथिव्यप्तेजो
१. तेहि S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org