________________
३९२
पण्डितदुवेकमिश्रकृतो [पृ. १८० पं. ३गमकत्वे हि तज्जनितत्वं सामर्थ्य वाच्यम् । नचार्थान्तरप्रसज्यप्रतिषेधेन सकलशक्तिविकलेन तज्जनितं येनास्य तथाभावो भवेदिति भावः । अवश्यं किं तेन तत्कारणेन भाव्यं येनाकारणस्येत्युच्यमानं शोभेतेत्याह तादात्म्ये[१८०.३]ति । अन्यस्य [१८०.९] अव्यभिचारनिबन्धनस्य भावादिति भावः । तेन' प्रत्यक्षेण अग्रहणात् 5 [१८०.९] ।
स्यादेतद्यदि तत्त्वव्यवस्थापकादेव प्रमाणादुटस्याधेयभूतस्याभावः सिद्धयति, तर्हि तस्य घटासंसृष्टरूपत्वसिद्धयर्थमभावप्रमाणमभ्युपेयम् । घटासंसृष्टरूपत्वमस्य ततः सिद्धयति । एवं तर्हि घटं प्रत्याधारभावोऽस्याभावप्रमाणप्रतिषेध्यः प्राप्त इत्याशंकायां यथा द्वयमप्येतत्तत
एव प्रसिद्धयति तथा प्रदर्शयितुं द्विविधो ही[१८०.९]त्यादिनोपक्रमते । अयमि10 [१८०.१०]ति । इदमाऽत्रे(त्र) देशमात्रं विवक्षितम् । तद् व्यावृत्तरूपतया
[१८०.१०] घटव्यावृत्तस्वभावतया। घटासंसृष्टरूंपो न घटेन सम्बन्धस्याहैकरूपम् । तदव्यावृत्तरूप तयैव च घटवानपि घटसहितोऽपि । ततो घटात् अन्य इति । सर्वथा घटादन्यत्वं . तस्यैका विधा । घटवानि[१८०.१०]ति तु प्रमादपाठः ।
द्वितीयां बा(वि)धामाह केवलश्चे[१८०.११]ति। केवल इति, घटादन्य एव सानु(सन् )15 तत्संयोगीति विवक्षितम् तदेव कैवल्यं स्पष्टयन्नाह-घटं प्रती[१८०.१११ति । तस्य प्रदेशस्य तद्विवेकेन [१८०.११] घट रूपविवेकेन च प्रत्यक्षेण ग्रहणे सति । घटविरहश्व [१८०.१२] संयोगिघटविरहश्च । इतिस्तस्मात् । वस्तूनामसङ्करो[१८०.१३]ऽसार्यम् , मत्सरशब्दवद्धर्मवचनस्यापि संकरशब्दस्या (स्य) भावात् , तत्
सिद्धयर्थं तन्निश्चयार्थं, परानभ्युपगताऽपेक्ष(क्ष्य)ते [१८०.२० 'तदेति 20 [१८०.२०] इहैवच्छेदः स्वज्ञान एव । परानभ्युपगतत्वमेव तस्याः प्रतिपादयति
अन्यभावादिति । अन्यथा [१८०.२१] यदि तस्य तद्भावरूपता परानभ्युपगतानपेक्षते(क्षिता) तेन प्रकारेण । प्रत्यक्षसिद्धता च [१८०.२२] तदभावस्यति प्रकरणात् । तदैवे[१८०.२ ३]ति तयोस्तादात्म्योपगमकाले । यद्वा
प्रत्यक्षसिद्धता तदैव नेति योज्यम् । यद्वा सा“ परानभ्युपगताऽपेक्ष्यते किं तदा 25 प्रत्यक्षसिद्धतेत्याशंकायां ने[१८०.२३]त्युत्तरम् । के(क) तर्हि साभिहितेत्यपेक्षायामुक्तं .
पक्षान्तर [१८०.२३] इति । तादात्म्योपगमपक्ष इत्यर्थः । संयोग एव समवायशब्देनोक्त इति व्याचक्षाणश्च धूमो हि संयोगी हेतुरित्यभिप्रैति । कुतः पुनः स्वशब्देनैव
१. तेन ग्रहणात् ।
२. तदिति ।
३. पक्षान्तरेण s.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org