Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 443
________________ पण्डितदुवैकमिश्रकृतो . [पृ. २१९. पं. ८स्कीलितं अपनीतं [२१९.८] इति व्याचक्षाणश्चोत्कीलितम् अपनीतं साधनसामर्थ्य यस्य श्रावणत्वलक्षणस्य हेतोः स तथोक्तो मूलग्रन्थ इति दर्शयति । ननु तानि वस्तूनि ते च पुरुषाः प्रतिहेतुनैतद्विपरीतरूपोपदर्शनद्वारा तथाभूतायाः संपदः प्रच्याव्यन्ते, न तु तेन हेतुनेति किमुच्यते तानि वस्तूनि नित्यत्वसंपदः 5 प्रच्याव्य तांश्च पुरुषान् स्वर्गापवर्गसम्पद [२१९.८] इति चेत् , सत्यमेतत् केवलं यस्मादसौ विद्यमान एव स्वयं प्रापितायास्तथाभूतायाः संपदः प्रच्याव्यमाना न समानजातीयेन परेण 'तानि वस्तूनि तांश्च पुरुषांस्त्रायस्व त्रायस्वेति फूत्कार विप्लवमाभाषमाणानीव स्वजीवितमपेक्षमाण इवोपेक्षते । तस्मात् प्रच्याव्या वयं तं परं प्रयुक्त इवेत्यभिप्रायाददोषत्रय (६) इति चेत् , सर्वश्चैतत् किं यो वस्तुतो असंभवात् 10 प्रतिहेतुरित्यादिदूषणमबाधितविषयत्वेऽपि लक्षणे प्रतिहेतुपदमपोद्धृत्याबाधपदं प्रक्षिप्य वक्तव्यम् । अत एवास्माभिरेतन्निदानमेव किं वस्तुतोऽसंभवद्वाधत्वमबाधितविषयत्वमभिप्रेतमुताप्रतिभासमानबाधत्वमपि किं तदैव किं वा अन्येषामपि । तत्रापि एक तदैवाहोस्विदुभयं वदापि (?) । अन्येषामपि किं तदैवाथ कालान्तरेऽपीत्यादि विकल्प्य सर्वत्र यथा योगं दूषणमुपनयद्भिरात्मनिराकरणेऽवाधि[त]त्वमात्मसाधनस्य प्रतिसंधानलक्षणस्य 15 हेतोर्विशेषणमपहस्तितम्। ततोऽन्यैरपि जिगीषुभिरबाधि[तात्वे विशेषणे सर्वत्रैवानयैव दिशा प्रत्यवस्थेयमिति । तल्लक्षणं [२२०.२ ३] लिङ्गलक्षणम् । ज्ञानस्यैव भावप्रत्ययेन [२२०.२४] त्वत्प्रत्ययेन । एतदेव साधयन्नाह तथाही[२२०.२१]ति । स्वतन्त्र एव [२२०.२९] वाच्यवस्तुनिरपेक्ष एव । अनर्थप्रतिलम्भ एव स्यात् 20 [२२१.१] अर्थप्रतिलम्भो न स्यादेवेत्यर्थः । अस्य [२२१.२] विकल्पप्रतिभासिनः सामान्याकारस्य । यद्येवं बाह्यस्यैव हेतुत्वमस्तु तत्किमनेन प्रयासेनेत्याह-साध्ये [२२१.३ति । कथं तर्हि विकल्पारूढानां सामान्याकाराणां परमार्थतो बाद्यानासंस्पर्शिनां संपादकत्वं साध्यसाधनभावः [69a7'कार्यादिरूपत्वं चेत्याशङ्क्याह-तद्धर्म तामेवे[२२१.४]ति । तस्यैव तडर्मतां बाद्यवस्तुधर्मताम् । बाह्यगतं(तां) 25 तद्व्यावृत्तिरूपतां इति यावत् । अनु'सरंतो [२२१.४] भेदाप्रतिपत्त्या अविद्यमान निबन्धनयाऽध्यवस्यन्तो नानैकव्यतिरेकान् [२२१.४] एकस्मिन्नप्यर्थे नानारूपं कृतकत्वानित्यत्वादि, एकत्वं सामान्यमनुगामिरूपं, व्यतिरेकं तयोः परस्पर(रं) धर्मिणश्च भेदं हेतौ शतुर्विधानात् प्रदर्शनादित्यर्थः । साध्यसाधनभावसमर्थनार्थमेतदुक्तं द्रष्टव्यम् । १. अनुस्मरतो । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523