________________
पण्डितदुवैकमिश्रकृतो . [पृ. २१९. पं. ८स्कीलितं अपनीतं [२१९.८] इति व्याचक्षाणश्चोत्कीलितम् अपनीतं साधनसामर्थ्य यस्य श्रावणत्वलक्षणस्य हेतोः स तथोक्तो मूलग्रन्थ इति दर्शयति । ननु तानि वस्तूनि ते च पुरुषाः प्रतिहेतुनैतद्विपरीतरूपोपदर्शनद्वारा तथाभूतायाः संपदः
प्रच्याव्यन्ते, न तु तेन हेतुनेति किमुच्यते तानि वस्तूनि नित्यत्वसंपदः 5 प्रच्याव्य तांश्च पुरुषान् स्वर्गापवर्गसम्पद [२१९.८] इति चेत् , सत्यमेतत् केवलं यस्मादसौ विद्यमान एव स्वयं प्रापितायास्तथाभूतायाः संपदः प्रच्याव्यमाना न समानजातीयेन परेण 'तानि वस्तूनि तांश्च पुरुषांस्त्रायस्व त्रायस्वेति फूत्कार विप्लवमाभाषमाणानीव स्वजीवितमपेक्षमाण इवोपेक्षते । तस्मात् प्रच्याव्या वयं तं परं
प्रयुक्त इवेत्यभिप्रायाददोषत्रय (६) इति चेत् , सर्वश्चैतत् किं यो वस्तुतो असंभवात् 10 प्रतिहेतुरित्यादिदूषणमबाधितविषयत्वेऽपि लक्षणे प्रतिहेतुपदमपोद्धृत्याबाधपदं प्रक्षिप्य
वक्तव्यम् । अत एवास्माभिरेतन्निदानमेव किं वस्तुतोऽसंभवद्वाधत्वमबाधितविषयत्वमभिप्रेतमुताप्रतिभासमानबाधत्वमपि किं तदैव किं वा अन्येषामपि । तत्रापि एक तदैवाहोस्विदुभयं वदापि (?) । अन्येषामपि किं तदैवाथ कालान्तरेऽपीत्यादि विकल्प्य
सर्वत्र यथा योगं दूषणमुपनयद्भिरात्मनिराकरणेऽवाधि[त]त्वमात्मसाधनस्य प्रतिसंधानलक्षणस्य 15 हेतोर्विशेषणमपहस्तितम्। ततोऽन्यैरपि जिगीषुभिरबाधि[तात्वे विशेषणे सर्वत्रैवानयैव दिशा प्रत्यवस्थेयमिति ।
तल्लक्षणं [२२०.२ ३] लिङ्गलक्षणम् । ज्ञानस्यैव भावप्रत्ययेन [२२०.२४] त्वत्प्रत्ययेन । एतदेव साधयन्नाह तथाही[२२०.२१]ति । स्वतन्त्र एव
[२२०.२९] वाच्यवस्तुनिरपेक्ष एव । अनर्थप्रतिलम्भ एव स्यात् 20 [२२१.१] अर्थप्रतिलम्भो न स्यादेवेत्यर्थः । अस्य [२२१.२] विकल्पप्रतिभासिनः
सामान्याकारस्य । यद्येवं बाह्यस्यैव हेतुत्वमस्तु तत्किमनेन प्रयासेनेत्याह-साध्ये [२२१.३ति । कथं तर्हि विकल्पारूढानां सामान्याकाराणां परमार्थतो बाद्यानासंस्पर्शिनां संपादकत्वं साध्यसाधनभावः [69a7'कार्यादिरूपत्वं चेत्याशङ्क्याह-तद्धर्म
तामेवे[२२१.४]ति । तस्यैव तडर्मतां बाद्यवस्तुधर्मताम् । बाह्यगतं(तां) 25 तद्व्यावृत्तिरूपतां इति यावत् । अनु'सरंतो [२२१.४] भेदाप्रतिपत्त्या अविद्यमान
निबन्धनयाऽध्यवस्यन्तो नानैकव्यतिरेकान् [२२१.४] एकस्मिन्नप्यर्थे नानारूपं कृतकत्वानित्यत्वादि, एकत्वं सामान्यमनुगामिरूपं, व्यतिरेकं तयोः परस्पर(रं) धर्मिणश्च भेदं हेतौ शतुर्विधानात् प्रदर्शनादित्यर्थः । साध्यसाधनभावसमर्थनार्थमेतदुक्तं द्रष्टव्यम् ।
१. अनुस्मरतो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org