________________
पृ. २१२. पं. २.] हेतुबिन्दुटीकालोकः।
४०७ संवादकत्वसमर्थनार्थमाह-वस्तुनि [२२१.५] इति । वस्तुनि-साध्येऽर्थे । परम्परया [२२१.५] संबद्धसंबद्धतया । कार्यादिव्यपदेशसमर्थन(ना)याऽऽह कार्यादी[२२१.५]ति । कार्यादिदर्शनद्वाराऽऽयातत्वात् तत्वेनाध्यवसायाच्च कार्यादि'व्यपदेशनिवन्धनं [२२१.५] त एव इति प्रकरणात् । तेन व्यपदेश'निबन्धनमिति च व्यपदेश "इन्द्रियमस्थानमेतद्राजन (?) " इति निर्देशवद् द्रष्टव्यः । .. ....5 -- ज्ञानस्य वाह्यलिङ्गरूपत्वं निराकृत्य सामान्याकाररूपत्वमपि निराकुर्वन्नाहविकल्पावभासी च [२२ १.७] इति । तस्य [२२१.८] विकल्पावभासिनः । सामान्याकारस्य निरूपस्ये[२२१.८ति च व्याचक्षाणोऽलीकरूपतामपोहस्याभिप्रैति । तद्रूपस्य [२२१.९] अवृक्षव्यावृत्ति रूपस्य विचारतोऽसद्रूपस्य विकल्प'प्रतिबिम्बकस्य [२२१.९] इति । विकल्पाकाराद् भेदेन प्रत्येतुमशक्यत्वात् 10 प्रतिबिम्बस्येव प्रतिबिम्बकस्यापोहस्य अथवा अनया बचनभनया बुद्धयाकारोऽपि तथाध्यस्तोऽपोहो वाच्य इति दर्शितमनेन । कथं तस्य सामान्यात्मत्वव्यवस्थेत्याह-यस्मादि[२२१.१०]ति । अनुयायितया[२२१.११]ऽध्य वसितस्येत्यनन्तरोक्तमनुवर्तते । एवंविधस्यापि किं न विकल्पात्मता । तथा च ज्ञानं किं न रूपं लिङ्गस्येत्याह-तथास्वे च [२२१.११] इति। तथात्वे [२२१.११] अनुयायित्वे । विकल्परूपात्मता 15 [२२१.१२] विकल्पस्वलक्षणात्मता। प्रकृतायां [२२१.१७] प्रस्तुतायाम् । रूपमभिधीयते [२२१.१७] एवंविधं लिङ्गस्य रूपमित्यभिधीयते । प्रत्ययात् । [२२१.२१] संप्रत्ययात् ।
परमतापेक्षया प्रमातुरि[२२१.२८]त्युक्तम् । तथा संयोगसमवायादीनाम् (२२२.१] इति, आलोकमनस्कारादीनाम् . [२२२.२] इति, 20 वस्तुवृत्त्यपेक्षयोक्तम् । न हि तेष्वसस्त्वि [२२२,२]ति ब्रुक्तोऽयं भावो यदि तत्र साध्यं न भवेत् तदा तदव्यभिचारिवस्तुदर्शनप्रनाडिकया तत्र ज्ञानमेव न भवेत्। यदि च लिङ्गे धूमादौ महत्त्वादिसमवायो न स्यात् , यदि च तस्येन्द्रियेण संयोगो न' भवेत् तदा तद्विषयं प्रत्यक्षमेव न भवेत् । असति च तस्मिन्न लिङ्गिनि विज्ञानमुत्पद्येत तथाऽऽलोकाऽभावेऽपि तथैव लिङ्गिज्ञानानुत्पत्तिर्ज्ञातव्या। तथाऽसति मनस्कारेऽसति। मनस्कारसाद्गुण्य 25 इति बोद्धव्यम् । पूर्ववल्लिङ्गिज्ञानानुत्पत्तिश्च । निश्चयोऽपीत्येव पाठः यत्र पुस्तके
१. कार्यादिलिङ्गव्यपदेशनिबन्धनं । । ... २. विकल्पप्रतिबिम्बचक्रस्य । ३. व्यवसितस्य
S ४ . विकल्परूपता। ६.स्वरूपमभिः । ६. संप्रत्ययात्-S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org