Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 431
________________ ३९४ पण्डितदुवैकमिश्रकृती [पृ. १८१. ५.२७बाय्वाकाशदिक्कालारम' मनांसि सामान्यविशेषसंज्ञोक्तानि नवैवेति ।" [प्रश० भा० पृ० ३] आदि[१८१.२७]शब्दाद्गुणवत्त्वसमवायिकारणत्वावबोधेः(धः)। तत्र [१८१.२७] अभावो(वे) गुणरूपेणैवाभावो द्रव्ये वर्तिष्यत इत्याह न चे[१८१.२८]ति। तत्र द्रव्ये रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्[त्व]संयोगविभागपरत्वा5 परत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्म शब्दाश्चतुर्विंशतिगुणाः । न चायमभावस्तेषां चतुर्विशतेर्गुणानां रूपादीनामन्यतमः । कर्मरूपतया तर्हि तत्रासौ वर्तिष्यत इत्याह-नापी[१८२.१]ति । कर्मरूपतया [१८२.१] वर्तत इत्यनुवर्तते । कस्मान्न वर्तत इत्याह पञ्चस्वि[१८२.१]ति । उत्क्षेपणापक्षेपणावकुञ्चन प्रसारणगमनलक्षणेषु पञ्चसु कर्मस्वनन्तर्भावात् । कथं तस्य तत्रान[64b]न्तर्भाव इत्याह 10 तल्लक्षणविरहादि[१८२.२ति । किं पुनः कर्मणो लक्षणं यद्विरहस्तस्योच्यत इत्याह एकद्रव्यमि[१८२.२]ति । भावप्रधानत्वान्निर्देशस्यैकद्रव्यत्वमित्यर्थः । आदि[१८२,३]ग्रहणेन कर्मत्वसम्बन्धः क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं गुरुत्वप्रयत्नसयोगजवं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वमसमवायिकारणत्वं स्वपराश्रय समवेतकार्यारम्भकत्वं समानजातीयानारम्भकत्वं द्रव्यारम्भकत्वं च परिगृहीतम् । 15 सामान्यादिरूपेण तर्हि तत्रासौ वर्त्यतीत्याह-नापी[१८२.३]ति । अपि शब्दाद्विशेष समवायपरिग्रहः । कुतस्तथा न वर्तत इत्याह तद्रपे[१८२.४ाति । एवं अवतोऽस्यायमाशयः-स्वविषयसर्वगतमभेदात्मकमनेकवृत्त्यनुवृत्तिबुद्धिकारणं हि सामान्यस्य रूपं न' चायं तथा । तथाऽन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वावि(त्वाद्वि)शेषा विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशदिक्कालात्मनःस्व(त्ममनःसु) प्रतिद्रव्यमेकैकशो वर्तमाना 20. अत्यन्तव्यावृत्तिबुद्धिहेतवः, न चायं तथा । अयुतसिवानामाधार्याधारभूतानां च सम्बन्धः इहप्रत्ययहेतुः समवायो न चार्य तद्रूप इति । तदभ्युपगमात्त[१८२.५]स्य संयोगस्याभ्युपगमात् । पञ्चानां [१८२.९] द्रव्यगुणकर्मसामान्यविशेषाणां समनायित्वं [१८२.९] समवायाश्रयत्वम् । प्रदेशाभावेपि [१८२,१३] विशिष्टोदेशाभावेपि घटाभावसंभवात् [१८२.१३] । अनेन व्यतिरेकाननुविधानं 25 दर्शितम् । न चास्य प्रतिविषयं भेद [१८२.१८] इति अनेन चेतरकार्यधर्मातिक्रमो दर्शितः । सम्बन्धिभेदात् [१८२.१९] । सम्बन्धिनां घटपटादीना भेदात् नानात्वात् अन्यादृशत्वाद्वा । भेदे [१८२.२०] नानात्वे अन्यादृशत्वे वेष्यमाणे । तत्प्रसङ्गो भयप्र(भेदप्र)सङ्गः । समनन्तरमेवोक्तं (१)। ननु च वाच्यवाचकभूताविह शब्दार्थों प्रकृतौ तथा बुद्धिघटिते च शब्दार्थसामान्ये 30 वाच्यवाचकरूपे न तु शब्दार्यस्वलक्षणे, न च तयोः शब्दार्थसामान्ययोर्जन्यजनकभावः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523