Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 430
________________ पृ. १८१. पं. २६. ] बिन्दु कालोकः । ३९३ गो नोक्त इत्याह-संयोगे [१८१.२]ति । भेदेने [१८१.३ ] तरभिन्नेन रूपेण यो व्यपदेशो [१८०.३] व्यपदिश्यमानत्वं तन्त्रानादरात् । यद्वा भेदेन भिन्नेन वाचकेन यो व्यपदेशमा (श आ ) ख्यानं तत्रानादरादिति । किं पुनः समवाय एवं नोच्यत इत्याह परेषां त्वि[१८०.३ ]ति । एवं तावद्भट्टार्चटो व्याचष्ट अन्ये पुनरस्थान एवास्य मतिविभ्रमो जात इत्याचक्षते । तथाहि धूमावयविधर्मिणि पर्वते वा धूमत्वे (मवत्त्वे ) न 5 धूमत्वेन च हेतुना साग्नि[64a ] ' त्वं साध्यत इत्येकार्थसमवाय्येव धूमो हेतुरिति परे संसचते (संचक्षते) | पुरस्ताच्चायं तस्माद्धूम एवात्र धर्मी कर्तव्यः । साग्निरयं धूमो धूमत्वादियुद्योतकरमतमदर्शयदिदानीं तु तद्विस्मृत्यैवं व्याचक्षाणो वार्तिककारमप्यवज्ञयात्र (ज्ञापात्र) • मापादयतीति -किमत्र ब्रूम इति । इतरस्य [ १८१.६] धूमस्य । ननु चे[१८१.८] त्यादिना प्रकृतमाक्षि [प]ता सत्यं [१९८१.१०] प्रसङ्गोरनित्या - 10 (नेत्या) दिना च परिहरता अनेन यदीश्वरसेन मतानुप्रवेशेन कश्चिदन्यभावतदभावयोरमीषामन्यतमं सम्बन्धमिच्छति तदभावोपदर्शनेन स तावत्कण्ठोक्तेनैव निरस्यते । सामर्थ्याच येपि नैयायिका-‘न बयमनयोर्गम्यगमकभावं वर्णयामोऽपि तु संयुक्तविशेषणसन्निकर्षजन्मना प्रत्यक्षेण घटाभावः प्रतीयते' इत्यभिमन्यन्ते तेप्यन्यभावतदभावयोः सम्बन्धाभावेन विशेष्यविशेषणभावानुपपत्तेः कथं तज्जन्मनः प्रत्यक्षस्य वार्तापि येन तदवसेयो ऽसत्त्वा - 15 द्भवितुमर्हतीति निरस्ता भवन्तीत्यभिप्रायेणान्यभावतदभावयोः सम्बन्धाभावो विभावित इति वेदितव्यम् । अस्यैवार्थस्य पुनरुक्ततां परिहर्तुमाह पूर्वं हि [१८१.११] इति । तस्य तदन्यासंसृष्टरूपस्येत्यादिना प्रागभिहितत्वादुक्तम् । प्रत्यक्षान्तरमि [ १८१.१२ ]ति हाना दिबुद्धिव्यपेक्षया बोद्धव्यम् । न च विशेषणविशेष्यभावलक्षण एव संबन्धः । सम्बन्धेन च संबन्धान्तरं मृगणीयमिति तेन शक्यते वक्तुं षट्सु पदार्थेष्वस्यानन्तर्भावेन 20 सप्तमपदार्थोपगमयन्विप्र ( गमनप्र ) सङ्गात् दण्डदण्डिनोर्जातितद्वतोश्च विशेषणविशेष्यभावोपपत्तेः संयोगसमवायसम्बन्धयो रस्तं गमनप्रस ( सं ) गाच्च किं कुर्वच्च तत्तस्य विशेषणमित्यादिविचारासहत्वाच्चेति । एवं चास्याक्षेपपरिहारा पुनरुक्तता प्रदर्शनं चानवगतवक्ष्यमाणग्रन्थार्थस्य त्वरया चोदितस्य चोद्ये 'सत्यादितो द्रष्टव्यमितरथा संबन्धाभावो - पदर्शनग्रन्थव्याख्यानानन्तरमिदं भ्राजेतेति । 'तेन प्रदेशावयवा द्रव्यात्मानो 25 [१८१.२५] द्रव्यस्वभावाः । नवैव [१८१.२६] नवसंख्याव्यवच्छिन्नान्येव पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्ममनोलक्षणानि । तदाह प्रशस्तकरः " तत्र द्रव्याणि - पृथिव्यप्तेजो १. तेहि S Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523