Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 434
________________ पृ. १९०. पं. २०.] हेतुबिन्दुटींकालोकः। निश्चिताकारमिति । कामलो विद्यतेऽस्येति कामली [१८९.१५] तस्य । तत्परिच्छदाभावः [१८९.२०] तस्य पुरोवर्तिनो भूतलादेरप्यभावस्य परिच्छेदाभावः । -- ननु च कस्यचिद्दर्शनाद्योयं क्वचित्प्राप्तिपरिहारार्थो व्यवहार इति प्रकृते अदृष्टस्य च परिहारार्थ [१८९.२३] इति व्याख्यानं कथमिव न साहसम् न ह्यदृष्टस्य दर्शनमस्ति । अथ दर्शनमित्युपलक्षणमेतत् , ततोऽदर्शना[65b]'दित्यपि द्रष्टव्यमिति 5 चेत् । तदवद्यम्, दर्शनस्यैव संकीर्णासंकीर्णरूपावभासितया विचारयितुं प्रक्रांतत्वात् , यदि चादृष्टपरिहारार्थो व्यवहारो भवेत्तर्हि कण्टकादेः परिहारार्थो व्यवहारो न भवेत् किन्तु प्राप्त्यर्थ एव, सम्यक्ज्ञानपूर्विका च सर्वहानोपादानलक्षणा पुरुषार्थसिद्धिर्न स्यादिति । स्थाने पराक्रान्तं भवता केवलं विवक्षिते दृष्टादृष्टशब्दार्थे समीचीनं मनो न प्रणिहितम् , दृष्टशब्देन हि सुखमत्रविवक्षितम् अदृष्टशब्देन च तद्विपर्ययेण 10 दुःखम् , ततोयं वाक्यार्थः-कस्यचिद्वस्तुनः सुखहेतोदर्शनाद्योयं क्वचिद्देशे संवित्सामर्थ्यमाववि(भावि)स्मरणादिना दृष्टस्य सुखस्य प्राप्त्यर्थो व्यवहारः प्रवृत्तिलक्षणो यश्च दुःखहेतोर्दर्शनाददृष्टस्य' दुःखस्य परिहारार्थो व्यवहारो निवृत्तिलक्षणः स न स्यात् । सर्वत्रैव सुखहेतुदुःखहेतुविषयत्वेन संप्रमुग्धाकारत्वात्सर्वस्यैव दर्शनस्येति । अतश्चैवं यद् विनिश्चयः “ सुखदुःखसाधने हि ज्ञात्वा यथार्ह प्रतिपित्सवः ” इत्यलं बहुना । किं 15 भूतस्तदर्थो व्यवहार इत्याह प्रवृत्तिनिवृत्तिलक्षण [२८९.२ ४] 'इति यथासंख्य सम्बन्धः कार्यः । अन्यथा [१८९.२६] संकीर्णरूपाप्रतिभासनप्रकारेणाऽस्य[१८९.२६] प्रत्यक्षस्य । - ज्ञानद्वयेन [१९०.६] प्रत्यक्षानुपलम्भरूपेण । पर[१९०.१६]मिति मीमांसकमित्यवसेयम् । एवमभ्युपगमे कारितेऽपि किं फलमित्याह तथा चे[१९०.१७]ति । 20 यथाश्रुति चापरिणामाख्येन। धर्मेणे[१९०.१८]त्युक्तं द्रष्टव्यम् । भावां'शस्यैवाभावत्वेनोगतत्वादि[१९०.२०]ति । " भावान्तरविनिर्मुक्तोऽभावोत्रानुपलंभवदि"त्यादिवचनादुक्तं भावान्तरस्याप्यतुस्ययोग्यतारूपस्य तथात्वेनेष्टत्वात् । न त्वदुपगतानुपलब्धिरूपत्वमभावप्रमाणस्य भविष्यतीत्यत आह तुल्ययोग्यतारूप स्यै[१९०,२०]वेति। अन्यथा तस्य तदभावरूपत्वानुपपवेरिति भावः । 25 भवत्वेवं तथाप्येकज्ञानसंसर्गित्वानपेक्षितया भेदो भविष्यतीत्याह तुल्ययोग्यतारूपस्य [१९०.२० एतज्ज्ञानसंसर्गिण एव चे[१९०.२०]ति । अन्यथा तुल्ययोग्यता- १. भावान्तरस्यैव० . २. स्यैक० ३ . ३. एकज्ञान, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523