Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 413
________________ ३७६ पण्डितदुर्वेकमिश्रकृतो [पृ. १५०. पं. २०दृष्टान्तीकृत इति चेद् एवं धूमत्वपाण्डुत्वादिभिरि [१५०.२ ३]त्यत्र धूमत्वादि निरूपयिष्यतो निर्देष्यामः । ___ ननु कार्यत्वस्य तद्भावाख्यैकसम्बन्धवशाद्गमकत्वं तत्कथं ' सर्वथा 'जन्यजनक भावाद् । इत्युच्यत इत्याशंक्याह जन्ये[१५०.२०]ति। सर्वथा जन्यजनकभावमेव प्रति. 5 पादयन्नाह तथाही[१५०.२१]ति । पूर्वोक्तेन प्रकारेणाग्नित्वादीनां सामान्यधर्मत्वं ज्ञेयम् । सर्वं चैतद्धर्मभेदपरिकल्पनयोच्यते । तृणे भवो वह्निस्तार्णः [१५०.२२] । पर्णे भवः पार्णः [१५०.२३] । भावप्रधानश्चैष निर्देशस्तेन तार्णत्वादिभिरित्यर्थः। ननु यथाऽमित्वं सकलामिव्यापनेनानुगतप्रत्ययहेतुत्वात्सामान्यधर्म उच्यते तथा धूमत्वमपि सामान्यधर्म एव । यथा च द्रव्यत्वादयोऽग्न्यनमिसाधारणत्वादनुगतबुद्धिनिबन्धन10 त्वेन सामान्यधर्मास्तथा पाण्डुत्वमपि धमनीहारादिगमनादनुगतज्ञानकारणत्वाच्च सामान्य धर्म 'एव तत् कथममू विशेषणे धर्मित्वेनोदाहरणीकृते इति । साधूक्तं भवति(ता) केवलं बोधे यत्नः करणीयः । इह खलु सर्वधूमव्याक्तव्याप्यनुगतप्रत्ययहेतुधूमत्वमेव सामान्यविशेषो विजातीयाद् व्यावृत्तप्रत्ययपुरस्कारेण विशेषधर्मो विवक्षित इत्यादिचोद्यम पोदितम् । एवं सत्यग्नित्वमपि विशेवधर्म इत्यग्ने विशेषधर्मस्यापि गम्यत्वमाया15 तमिति चेत् । तथाविधस्य विशेषधर्मस्य गम्यत्वेनेष्टत्वान्न कश्चिद्दोष इति । अवान्तरविशेषस्य तु तार्णत्वादेर्गम्यत्वम् धूममात्रस्य तदप्रतिबन्धान्निषिध्यत इति किमवद्यम् । धूमस्य विजातीयासाधारणधर्मवाचकश्च पाण्डुशब्दोऽस्ति योनेनोपात्त इति द्वितीयमपि चोद्यमपोद्यते । स [57a] 'चैतच्छब्दाभिलाप्यो धर्मो दुर्ज्ञान इत्यमिरत्र पाण्डुत्वादिति नोच्यत इति सर्वमवदातम् ।। 20 स्वभावैवध[१५१.८] (वैध)मैरित्यर्थः । अपरोर्थ [१५१.१३] इति । यावद्भिरविनाभाविकारणस्य बायैकदेशस्यान्योऽर्थो न तु समुदायग्रन्थस्यामुमर्थमन्तरेण पूर्वार्थमात्रेण वाक्यस्यासंगतत्वात् । संबध्यत [१५१.११] इति तत्कार्य तेषां हेतुरि[१ ५१.१५]ति सम्बन्धः कार्य इत्यर्थो न तु पूर्वव्याख्यानोक्तमत्रापि व्याख्यानेऽभिसम्बध्यत इति बोद्धव्यम् । पूर्वव्याख्याने तेषां स्वगतानां धूमत्वादीनां हेतुरिति 25 प्राप्तावाँ सं(वर्थासं)गतेरेव संबन्धनीयत्वादिति । तेषामिति कारणगतानां धर्माणां हेतुस्तत्कार्यमिति पूर्वोक्तमभिसंबध्यते । कैः स्वभावैहेतुरित्यत्र गजनिमीलिकैव कृता एतदनुसन्धानेन न त्वनन्तरं वाक्यं भविष्यति । केचित्पुनरत्रैवमाहुः-उक्ते सति नियतमेतद् व्याख्येयं नान्यथा । सति चैवं पूर्वव्याख्यानस्य कोपयोगः । तस्माद् यतस्तदुत्पत्तिनियमाभावे सर्वथा जन्यजनका(क)भावो व्यवस्थापयितुमयुक्तस्तस्माद्यावद्भिः कारणे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523