Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 412
________________ पृ. १५०. पं. १७.] हेतुबिन्दुटीकालोकः । ३७५ कारणमिति । तदुक्तं "भूतियैव क्रिया सैव” इत्यादि । इत्थं चैकप्रहारनिय(ह)तमेव तत्सर्व दिगम्बरेरितम् । ततश्च क्षणिकस्यैवार्थक्रियोत्पत्तेः सत्त्वं क्षणिकत्वमेव साधयद् विरुद्धमाचक्षाणाः क्षपणा अनेकान्तत्वे च साध्ये साधनमिदमुपनयन्तः स्फुटमहीकावेति- . (महीका एवेति) 'उपेक्षामेव प्रे (वतामहन्तीति । स्वभावहेतुं व्याख्याय कार्यहेतुं व्याख्यातुकामो वार्तिककारस्य कार्यहेत्वभिधानस्य 5 निमित्तं दर्शयन्पूर्वापरयोः संगतिं तदेवमि[१५०.३]त्यादिना करोति । तद्गतं [१५०.५] कार्यहेत्वाश्रितम् । कस्मात्पुनः स्वभावहेतुवदप्यस्यान्वयव्यतिरेकावेव न प्रतिपाद्येते, येन तद्गता परभ्रान्तिकारणोपादानार्थमेव कार्यहेतुविषयो[प]दर्शनं वयेत इति आशंक्य कार्यहेतावि[१५०.४]त्यादि योज्यम्। तयोर[१५०.४]न्वयव्यतिरेकयोः । तर्हि कार्यकारणभावसिद्धिरेतद्दर्शनीया ततश्च तां दर्शयितुमिति किं नोच्यत 10 इत्यपेक्षायां तस्याश्चे[१५०.५]ति योज्यम् । तस्याः कार्यकारणभावसिद्धेः । हेतोः प्रत्यासन्नत्वात्. [56b] हतोर्व्यतिरिक्त [१५०.७] इत्याचष्टे । कार्य [१५०.७ कार्यमेवेति विवक्षितं । 'त्रिधैव स' इति नियमस्य पूर्व प्रतिपादितत्वात् अत एव कस्माकार्यमेवे[१५०.८ति पश्चाच्चोदयिष्यते। अनर्थान्तरे व्यावृत्तिभेदात् परिकल्पितव्यावृत्त्यन्तररूपे धर्मान्तरे । असाधारणं कार्य[१५०.९]। 15 दिङ्'नागेन (सर्वव्यक्तिष्वनुपग(ष्वनुग)तप्रत्ययप्रसूतिः ? )। सर्वथा तद्भावमेव प्रतिपादयन्नाह -अग्नेरि[१५०.१७]ति । अस्याश्रितत्वादनेः अग्नित्वं सर्वामिव्यापनादनुगतप्रत्ययहेतुत्वविवक्षयैव, सामान्यधर्मा अपि गमकाभिप्रेतास्त इव । तार्णत्वादेः सर्वाग्न्यव्यापनाद् व्यावृत्तप्रत्ययहेतुत्वा(त्व)विवक्षया विशेषधर्मत्वं विवक्षितम् , न तु सर्वथा सामान्यरूपत्वमस्य निराचिकीर्षितम् सर्वतार्णादिवह्निष्वनुगत- 20 प्रत्ययप्रसूति हेतुत्वात् , सामान्यरूपस्य चात्राव्याघातात्, अन्यथा तार्णवयादिजन्य रूपतयावधारितात् धमान्वयता(मान्न वह्निता)र्णाद्यनुमानं स्यात् विशेषरूपस्याव्यापकतया अननुमेयत्वात् । तेपि विशेषधर्मा गम्याः स्युः, इष्यन्ते चाग्नेः सामान्यधर्मा एवामित्वद्रव्यत्वसत्त्वज्ञेयत्वादयो गम्या इति भावः । धमस्यापि विशेषधर्मवत्सामान्यधर्मा गमकाः स्युः न चेष्यन्ते सत्त्वज्ञेयत्वपार्थिवत्वादयो गमका इति भावः । कोऽसौ धूमाश्रितो विशेषधर्मो 25 १. ' आचार्येण ' [१५०.१३] इत्यस्य विवरणं दिग्नागेन इति भाति । २. ' सर्वव्यक्तिष्वनुगतप्रत्ययप्रसूति ? ' इदं शंकाचिह्नितं पदं नात्रत्यं किंतु अग्रेतनं भाते। तच ' अग्नेरिति' इत्यस्य अनन्तरं यदि स्यात् तदा संगच्छेतापि । तत्रापि सामान्यपदं गलित भाति । तथा च सर्वव्यक्तिष्वनुगतप्रत्ययप्रसूतिः सामान्यं इत्यर्थः स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523