Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 423
________________ पण्डितदुर्वेक मिश्रकृतो [ पृ. १७०. पं. १५ गुरुत्वसंज्ञकगुणाभावात् । तदभावश्च बुद्धेर्गुणरूपत्वे निर्गुणत्वात्, निर्गुणत्वञ्च गुणानां “अगुणत्वं द्रव्याश्रितत्वं चे " ति वचनात्, गुरुत्वं च गुणः "गुरुत्वं जलभूम्योः पतनकारणमि" ति वचनाच्च गुरुत्वाभावः। मा भूद् गुरुत्वं तस्याः पतनं तु किं न भवतीत्याह-संयोगाभाव [१७०.१५] इति । यदि गुरुत्वादेव पतनं भवेत् न ' तर्हि शाखादौ 5 फलान्यवतिष्ठेतेति संयोगाभावे सतीत्युक्तम् संयोगाभावे [१७०.१५] शास्त्रावृतादि - संयोगाभावे । ૩૬ कृतान्त: [ १७०.१६] सिद्धान्तः समवायात् उपलब्धेस्तत्र समवायादित्यर्थः । सोऽपि [ १७०.१६] समवायोऽपि । कार्यकारणा (ण) भावविशेषः आधार्याधारभावः स चाऽऽत्मनो नित्यस्य न संभवतीति भावः । यद्यप्युपलब्धेर्न पातः सम्भवी तथाप्यसौ 10 किमाधारो न भवतीत्याशङ्कय पूर्वस्मिन् पक्ष एव प्रतिवचनं दर्शयति । न चापतनधाकाया [१७०.१७] इति। अपतनधर्मकत्वं च तस्या गुरुत्वाभावादनन्तरमेव प्रतिपादितम् । अनेनैतद्दर्शयति- पतनधर्मणो जलादेः पातप्रतिबन्धकः कश्विदाधारो भवतु यावद्यदि तत्रापि कश्चित् कोऽयं प्रतिबन्धो नामेति न पर्यनुयुञ्जीत । न त्वपतनधर्मण इति तदाहप्रामाणिकचक्रचूडामणिः 15 " स्यादाधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किमाधारो गुणसामान्यकर्मणाम् || " [ प्रमाणवा० १.७०] इति । अन्यस्याप्या[१७०.१८] मनोपि । तद्भावप्रसङ्गस्तदाधारत्वप्रसङ्गः । कुत एतदित्याह तस्ये [ १७०.१९]ति । तस्य समवायस्य । समानत्वात् [१७०.१९] एकत्वात् । अत एवाह - एकत्वेन [ १७०, १९] इति । अस्य 20 [१७०.१९] समवायस्य । प्रकरणे [१७०.२५] चिंतायां प्रस्तावे इति यावत् । विवक्षितात् [ १७०.२५] शास्त्रविहिताद्। भक्ष्यात् [१७०.२५] भक्षणात् । अन्यत्वेन ग्राम्यकुक्कुटः [१७० ७०.२६] तदन्यस्य [ १७०.२६ ] ब्राह्मणादेरन्यस्य । भक्ष्योऽपि सन्नभक्ष्य उच्यत [१७०.२६] इति सम्ब[न्ध]नीयम् । अनेकेन निदर्शनेनोपपद्य मानोऽर्थः सुज्ञातो भवतीति 25 निदर्शनान्तरमाह यथा च [ १७०.२७] इति। अधिकारे [१७०.२७] प्रस्तावे | तदू [१७१.१] उपदर्शितद्वयबद् विशिष्ट [ १७१.३] उत्तरपदार्थाभावविशिष्टे अर्थ [१७१.३] तत्सदृश इति यावत् । तया नञो भावविषयता [ १७१.३] इति १. संयोगाभावेन S | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523