________________
पण्डितदुर्वेक मिश्रकृतो
[ पृ. १७०. पं. १५
गुरुत्वसंज्ञकगुणाभावात् । तदभावश्च बुद्धेर्गुणरूपत्वे निर्गुणत्वात्, निर्गुणत्वञ्च गुणानां “अगुणत्वं द्रव्याश्रितत्वं चे " ति वचनात्, गुरुत्वं च गुणः "गुरुत्वं जलभूम्योः पतनकारणमि" ति वचनाच्च गुरुत्वाभावः। मा भूद् गुरुत्वं तस्याः पतनं तु किं न भवतीत्याह-संयोगाभाव [१७०.१५] इति । यदि गुरुत्वादेव पतनं भवेत् न ' तर्हि शाखादौ 5 फलान्यवतिष्ठेतेति संयोगाभावे सतीत्युक्तम् संयोगाभावे [१७०.१५] शास्त्रावृतादि - संयोगाभावे ।
૩૬
कृतान्त: [ १७०.१६] सिद्धान्तः समवायात् उपलब्धेस्तत्र समवायादित्यर्थः । सोऽपि [ १७०.१६] समवायोऽपि । कार्यकारणा (ण) भावविशेषः आधार्याधारभावः स चाऽऽत्मनो नित्यस्य न संभवतीति भावः । यद्यप्युपलब्धेर्न पातः सम्भवी तथाप्यसौ 10 किमाधारो न भवतीत्याशङ्कय पूर्वस्मिन् पक्ष एव प्रतिवचनं दर्शयति । न चापतनधाकाया [१७०.१७] इति। अपतनधर्मकत्वं च तस्या गुरुत्वाभावादनन्तरमेव प्रतिपादितम् । अनेनैतद्दर्शयति- पतनधर्मणो जलादेः पातप्रतिबन्धकः कश्विदाधारो भवतु यावद्यदि तत्रापि कश्चित् कोऽयं प्रतिबन्धो नामेति न पर्यनुयुञ्जीत । न त्वपतनधर्मण इति तदाहप्रामाणिकचक्रचूडामणिः
15
" स्यादाधारो जलादीनां गमनप्रतिबन्धतः ।
अगतीनां किमाधारो गुणसामान्यकर्मणाम् || " [ प्रमाणवा० १.७०] इति ।
अन्यस्याप्या[१७०.१८] मनोपि । तद्भावप्रसङ्गस्तदाधारत्वप्रसङ्गः । कुत एतदित्याह तस्ये [ १७०.१९]ति । तस्य समवायस्य । समानत्वात् [१७०.१९] एकत्वात् । अत एवाह - एकत्वेन [ १७०, १९] इति । अस्य 20 [१७०.१९] समवायस्य ।
प्रकरणे [१७०.२५] चिंतायां प्रस्तावे इति यावत् । विवक्षितात् [ १७०.२५] शास्त्रविहिताद्। भक्ष्यात् [१७०.२५] भक्षणात् । अन्यत्वेन ग्राम्यकुक्कुटः [१७० ७०.२६] तदन्यस्य [ १७०.२६ ] ब्राह्मणादेरन्यस्य । भक्ष्योऽपि सन्नभक्ष्य उच्यत [१७०.२६] इति सम्ब[न्ध]नीयम् । अनेकेन निदर्शनेनोपपद्य मानोऽर्थः सुज्ञातो भवतीति 25 निदर्शनान्तरमाह यथा च [ १७०.२७] इति। अधिकारे [१७०.२७] प्रस्तावे | तदू [१७१.१] उपदर्शितद्वयबद् विशिष्ट [ १७१.३] उत्तरपदार्थाभावविशिष्टे अर्थ [१७१.३] तत्सदृश इति यावत् । तया नञो भावविषयता [ १७१.३] इति १. संयोगाभावेन S |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org