________________
पृ. १७०. पं. १५.] हेतुबिन्दुटीकालोकः ।
३८५ • तदभावेपि कथमसंभवीत्याह-यस्मादि[१६९.६)ति । एवमनेकद्रव्यवदिति व्यपदिश्यते । द्रव्याभावश्च न हि रूपादिव्यतिरिक्तमित्यादिना अनन्तरमेवोपपादितः। तयोपलब्धिलक्षणप्राप्त्या [१६९.१०] उपलब्धिलक्षणप्राप्तस्येति तथाभूतोपलब्धिलक्षणप्राप्तिमत इत्यर्थः । इति[१६९.११]हेतौ शास्त्रकारः प्रकरणात् बार्तिककारः । अभावशब्देन अभावो अभावव्यवहारश्चाभिप्रेत्य(त) इत्यभिप्रायेण आह-अभावव्यवहार- 5 हेतुश्चे[१६९.१३]ति । या त्वि[१६९,१३]त्यादि ब्रुवतश्चायमभिप्रायो-यदि व्यापकाद्यनुपलब्ध्यभिप्रायेणाभावव्यवहारहेतुर्वेति वक्तुमध्यवस्याह-नैतद्रूपात् अभावशब्देनाप्यभावव्यवहारस्य विषयेण विषयिणो निर्देशसम्भवेन वक्तुं शक्यत्वात् ब्रुवन् विशिष्टामेवानुपलब्धिमभिप्रैतीति उपलब्धिलक्षणप्राप्तानुपलब्धेापारमिमं कथयता च वार्तिककृता सामाद्यदनोपदर्शितं अन्यत्र तु साक्षादभिहितम् तदपि दर्शयन्नाह-या त्वनुपलब्धी- 10 [१६९.१५]त्यादि सद्व्यवहारप्रतिषेधहेतुरित्यवगन्तव्यम् [१६९.१७]। कुर्तः पुनस्तदन्यवस्तुविज्ञानमेवेच्छन्तीति ज्ञायत इत्यपेक्षायां योज्यम्-विज्ञानं वान्य. वस्तुनीति वचनादि[१६९.२१]ति । यदा कर्तृस्थतया 'विवक्ष्यत [१६९.२ ४] इत्यर्थः ।
ननु भवन्मते किमुपधी(मुपलब्धा) कश्चिदात्माऽस्ति, येनैवमुच्यते इत्याह-उपलभ- 15 मानश्चे[१६९,२६]ति । चो व्यक्तमेतदित्यस्मिन्नर्थे यस्मादर्थे वा । अत्रैवाहंकारस्योपपत्तेरित भावः ।
ननु उपलब्धिक्रियायाः कर्ता उपलभमान उच्यते । तत् किमुपलब्धिजनकस्तथाविधउपलभमान उच्यत इत्याशंक्याह तथाही[१६९.२८]ति । काममेवमुच(च्य)ताम् [61a] तथापीन्द्रियादेः कथं तत्त्वमित्याह न चे[१६९.२८]ति। अन्यस्ये[१७०.१]- 20 त्यात्मनः । जनकत्वमिति प्रकरणात् उपलब्धिजनकत्वमित्यर्थः । आत्मन [१७०.७] आत्माल्यस्य नित्यद्रव्यस्य । तदुत्पत्तावुपलब्ध्युत्पत्तौ हे नां अव(न)स्थितिः इयन्त एव हेतव इति व्यवस्थाऽभावः । हेत्वनवस्थितौ च कार्यार्थिनो नियतकारणोपादानं न स्यादिति भावः ।
आश्रयत्वात्तीसौं कर्ता भविष्यतीत्याह-आश्रयत्वमपी[१७०,११]ति । तस्य 25 नित्यस्यात्मनो जनकत्वानुपपत्तरिति भावः। क्षणिकत्वे उत्पत्तिक्षणमात्रसत्त्वे सति स्थिते. रुत्पादातिरेकण्या अभावात् [१७०,१२] । न पाताभावस्तस्याः [१७०.१४] पतनस्यैवासंभवादिति भावः । कुतो न पतनं तस्या यतो न पाताभावः स्थितिरित्याहतस्याः [१७०.१५] इति । तस्या उपलब्धेर्गुरुत्वाभावात् [१७०.१५]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org