________________
२८४
पण्डितदुबैकमिश्रकृतो. [पृ. १६८. पं. २३ग्राहकं तस्य भावस्तत्त्वमिति चार्थो द्रष्टव्यः। अपि [१६८.२ ३] न्यायतः संभावनामाह । तुल्योपकत्त्वं(पपत्ति) वा समुच्चिन्नोति । परेणाकांक्षितहेतुं दर्शयितुमाह स्वरूपणे[१६८.२ ३]ति । स्वरूपेण प्रातिस्विकेन आत्मना ग्रहणे सत्यन्यस्योपलब्धौ
तस्येति प्रत्यासत्तेः । नान्यस्यापरोक्षीभाव इति द्रव्यात्मनोऽत्यन्तपरोक्षत्वात् । अयमस्याशयो 5 रूपं हि गृह्यमाणमेवोपलम्भकं युक्तम् , नान्यथा । न तच द्रव्यरूपेण गृह्यते तग्राहिणो ज्ञानस्य भ्रान्तत्वप्रसंगात् । ततः कथं द्रव्यस्योपलंभ इति । तथाप्यस्य तथात्वमुपगच्छामो यदि ततो भेदेन तत्प्रतिभासः स्यान्न चैतदस्तीति प्रतिपादयन्नाह द्रव्यरूपस्ये. [१६८.२३]ति । द्रव्यरूपस्य द्रव्यखरूपस्य । तद्विवेकेन रूपस्वभावविवेकेन
अनुपलक्षणादनुपलब्धेः । एतच्च दूषणं महत्त्वेप्युपलंभे द्रष्टव्यम् । अत्रैव 10 वक्तव्यान्तरं समुच्चिन्वन्नाह-न चे १६८.२४ाति । हेतुमाह यत
[१६८.२५] इति । प्रतिलब्धात्मकमेवोत्पन्नमेव सत् । तथातां [१६८.२६] समवायिकारणताम् । उत्पत्तिक्षणे निर्गुणमपि द्वितीये क्षणे सगुणं भविष्यतीत्याह न चे[१६८,२७]ति । 'स्वस्य द्रव्यस्य । प्राक्तनरूपयोगेपि पूर्वखरूप
नाशोऽक्षणिकत्वादस्येत्याशयः । यतः [१६८.२८] पूर्वरूपनाशरूपान्तराऽऽविर्भावात् । 15 ननु च पूर्वरूपनाशे तस्यैव नाशाद्रूपान्तराविर्भावे चान्यस्यैव भावात् कथं यदेव
महत्त्वादिकं प्रति प्रागप्रतिपन्नाधारभावं तदेवाऽऽधा[60b] रतां यायादिति चेदयमपरोऽस्तु दोषोऽस्येत्यभिप्रायाददोष एषः । इहापि महत्त्वादिकं प्रति द्रव्यमाधारो नोपपद्यत इति दर्शयन्नाह-न चे[१६९.१]ति । प्रजनकस्यापि तथात्वेऽतिप्रसंगात् । स्थापकत्वादिना
प्रकारान्तरेणाधारमावस्यान्यत्र निषिद्धत्वाच्चेति भावः । अक्रियाविरोधाद[१६९.२720 र्थक्रियाया अनुपपत्तेः । यथा चाक्षणिकः क्रमेणा क्रमेण वार्थक्रियामुपकल्पयितुं न कल्प्यते
तथोदितं पुरस्तात् । समवायिकारणस्येति प्रकरणात् महत्त्वादिकं प्रति समवायिकारणस्यास्योपलभ्यस्य द्रव्यस्येत्यर्थोऽवसेयः । स्यादेतद्यदि नामानन्तरोदितया नीत्या तं प्रति तस्याधारभावो नोपपद्यते तथापि तदनाधार एव तत्समवायिकारणं किं न भवतीत्याह यत [१६९.३]
इति । 'स्वोत्कलितं खाश्रितं स्वारूढमिति यावत्। जनयतु तर्हि स्वोत्कलितं कार्यम् । 25 यतस्तथा व्यपदेशमश्नत इत्याह-न चे[१६९.४]ति। एतदिति स्वोत्कलितकार्यजननम्।
अयमस्याशयो लब्धात्मसत्त्वेनैव हि तथा जनयितव्यं न त्वागृहीतमहत्त्वादिरूपेण तेनोत्पत्तव्यम् सहभुवोः कार्यकारणभावाभावेनात'द्धेतुकत्वप्रसंगात् क्षणिक[त]या तु द्वितीयेक्षणेऽसत्त्वात् न स्वोत्कलितकार्यजननमिति-पश्चादाधारभावो [१६९.५] न चेत्यनुवर्तते, स्वहेत्वागतस्य तदाधाररूपस्यावनाशादिति भावः । १, अस्य 8
२. आधाराभावःS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org