________________
पृ. १७१. पं. १३.] हेतुबिन्दुटीकालोकः ।
३८७ योज्यम्। तया [१७१.३] इतीत्थम्भूतलक्षणा चेयं तृतीया प्रत्येया। भावविषयभानप्रतिषेधमात्रविषयतेत्यर्थात् । किंभूतस्य नञ [61b]'इत्यपेक्षायां योज्यम् आगृहीते[१७१.३]ति । तथा विधिसामान्येन समन्तात् स्वीकृतोत्तरपदार्थप्रतिषेधस्य कथं पुनरेतत् ज्ञातव्यमित्यत्रायं न तरपदार्थप्रतिषेधमात्रवृत्तिः प्रसह्यवृत्चिरत्र तु उत्तरपदार्थाभावविशिष्टसदृशवस्तुवृत्तिः पर्युदासवृत्तिः इत्याशङ्कायामाह यत्र [१७१.४] इति । यत्रैवमेवं तत्र पर्युदासवृत्तिता 5 [१७१.६] इति सम्बन्धः। विधेः प्राधान्यम[१७१.४]भिधेयतया भावरूपं प्रतिपाद्यत इत्यर्थः । प्रतिषेधः [१७१.५] तथाभूतोत्तरपदार्थनिषेधः अर्थगृहीतः सदृशवस्तुवि. धानसामर्थ्याक्षिप्तः विधिभाग्विधे[१७१.५]र्योऽर्थः क्षत्रियादिः स्वपदेनात्मवाचकेन नोच्यते पर्युदासमर्थप्रतिपादके वाक्ये इति बोद्धव्यम् न तु 'समासनिमित्ते अन्वाख्यानवाक्य' इति नित्यसमासत्वादस्य तदसंभवात् 'इतरथा 'राज्ञः पुरुषमानय' इत्यादिवत् क्षत्रिया- 10 नयने विवक्षिते न ब्राह्मणमानयेत्यादिरपि प्रयोगः प्रसज्येत । यत्तु न] ब्राह्मणोऽब्राह्मण इत्युच्यते तद् ब्राह्मणो न भवति प्रसज्यप्रतिषेधेन मात्रया अर्थः कथ्यते । पर्युदासे प्रसज्यप्रतिषेधोप्यस्तीति कृत्वा, न पुनः समासार्थमन्वाख्यानवाक्यं 'तत् , कुम्भं करोतीति कुम्भकारः कुम्भस्य समीपमुपकुंभमित्यादिवदिति । यदि स्वपदेन नोच्यते कथं नामासावुच्येत इति चेत् । अन्यशब्देनेति ब्रमः । अन्यशब्दस्यैव तत्र प्रयोगात् एकवाक्यता च 15 तथार्थकथने वाक्ये नञर्थवाचकस्यान्यशब्दस्य सुबन्तेनैव पदान्तरेणाभिसन्धात् । एतदेव' सामान्योपदर्शितं लक्षणं प्रकृते योजयन्नाह विधिश्चे[१७१.६]ति। वाक्येन [१७१.७] तथाविधेनेति द्रष्टव्यम् । एवं तत्प्रतिषेधः प्रतीयत इत्याह-विवक्षितोपलब्धेरनिवर्तन [१७१.८] इति । कथं तर्खसावुच्यत इत्याह किं तीं[१७१.१०]ति । कथमन्यशब्देनोच्यते न तु स्वशब्देनेत्याह अन्यशन्दस्यैवे[१७१.१९]ति । 20वाक्य इति तत्त्वार्थकथने वाक्य [१७१.११] इति प्रत्येयम् । तत्रापि कथमन्यशब्दप्रयोग इत्यपेक्षायां योज्यं पर्युदासाश्रयेणे[१७१.१०]ति । एतदेव दर्शयति अन्योपलब्धिरनुपलब्धिरि[१७१.११]ति । इतिर[१७१.१२]शब्देनाभिधानस्याकारं दर्शयति । नत्रश्च सुबन्तेन समासैकदेशेन । सामथ्र्य [१७१.१२] व्यपेक्षालक्षण: सम्बन्धः । इति[१७१.१२Jहेतौ । एकवाक्यत्वं न वाक्यभेदं(दः) 25 सामानाधिकरण्यमित्यर्थः । तदेव दर्शयन्नाह-अन्या उपलब्धिरनुपलब्धिरि[१७१.१२]ति । इतिना एकवाक्यत्वस्याकारो दर्शितः । प्रसज्यप्रतिषेधः [१७१.१३] . कंचिदर्थ प्रसज्य यः प्रतिषेधः । कस्यचिदर्थस्य प्रसङ्गमुपदर्शनमधिकार कृत्वा यो निषेध उत्तरपदार्थप्रतिषेधमात्रं यत्राभिधेयमित्यर्थः मयूरव्यंसकादित्वाच्च
२, न उपलन्धि's
१. विधेश्चेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org