________________
ચૂંટ
पण्डितदुर्वेक मिश्रकृतो
[ पृ. १७१. पं. १३समासः । ' तद्विपरीत: [ १७१.१३] उपदर्शितपर्युदासविपरीतः । वैपरित्यमेव सुखप्रतिपत्त्यर्थमुपदर्शयन्नाहइ-तत्र ही [ १७१.१४ ]त्यादि । तत्र ह्यत्तरपदार्थप्रतिषेधस्य समासार्थत्वात्प्राधान्यम् । विधिः कस्यचिदर्थस्य विधानं अर्थात् सामर्थ्यात् गम्यते [१७१.१४] यदा विधिप्रतीतिस्तदाऽर्थादिति च द्रष्टव्यम् | [62]' तथाहि " अभिहिते न 5 भवन्ति द्वितीयाद्याः विभक्तयः " इत्युक्तेर्विशेषप्रतिषेधस्य शेषधीनान्तरीयकत्वादिति लक्षणात्सामर्थ्यादनाभिहिते भवतीति गम्यते । सूर्यं न पश्यन्तीति नात्र प्रह ( ननोऽत्रदृ ) शिना तिङन्तेन संबद्धो न तु सुबन्तेनेति वाक्यभेदः । प्रतिषेधभाक् [ १७१.१५] सूर्यदर्शनादिः स्वपदेन [ १७१.१५] स्ववाचकेन सूर्ये न पश्यन्तीति अनेनोच्यते । अत्र तु समास' निमित्तेऽन्वाख्यानवाक्य इति द्रष्टव्यम् । प्रसज्यवृत्तिनञ्समासे तत्संभवा10 दिति सर्वचैतत्प्रकरणादितो ज्ञातुं शक्यमिति सर्वमवदातम् ।
ति
प्रासंगिकं परिसमापय्य संप्रति प्रकृतमनुधुन्व ( नुबध्न ) न्नाह तदेवमि [ १७१.१६]1 भावतो [१७१.२६ ] वस्तुतः परमार्थत इति यावत् । संबन्धकल्पनायाम[१७१.२७] न्यस्य वास्तवस्य संबन्धस्य कल्पनायाम् । सोप्यर्थान्तरभूतः सम्बन्धः कथं तयोरिति पर्यनुयोग तदन्यकल्पना, तत्राप्येवमित्यनवस्था प्रस्तुत वस्तु15 व्यवस्थापरिपंथिनी स्यात् । उक्तसदृशं उक्तप्रायम् [१७१.२७] ।
तत्र विज्ञाने किं भूतं सद्घटरूपम् तत्र स्वाकारमर्पयतीत्यपेक्षायां योज्यम् तथाविधर्मि[१७२.१६]ति । यथाविधं प्रदेशरूपं तथाविधं सत् व्यवधानविप्रकर्षादिरहितमित्यर्थः । स्वाकारद्वारेण । [१७२.१९] स्वाकारार्पणद्वारेण । एतदेव स्फुटयन्नाह तदि[ १७२.२० ]ति । तयोः संसर्गस्वा(संसर्गमा)त्मनि [ १७२.२०] स्वात्मनि 20 दर्शयति । अवधेयवचसः [ १७२.२८] आकर्णनीयवचनाः । लघुवृत्तित्वाद् [१७२.२८] अतिशीघ्रप्रचारत्वात् ज्ञानस्य यौगपद्याभिमानो [ १७२.२९] युगपद्गृहीतानीत्यध्यवसायः । एवं चाचक्षाणेन क्रमेणैव तानि पुरोवर्तीनि तुल्ययोग्यतारूपाणि वस्तूनि गृह्यते ज्ञानेन तु युगपदिति सामर्थ्याद्दर्शितम् । सर्वत्र तथाभावप्रसंगात् [१७३.५] भ्रान्तिकल्पनाप्रसंगात् । ज्ञानमेवात्र क्रियेति मन्यते परः । कथमि[ १७३.४ ]ति सिद्धान्ती 25 सन्तमसावस्थितघटादिप्रतिपत्तौ कर्तव्यायां प्रदीपस्यापि करणरूपत्वमव्याहतमिति भावः । कर्तृभेदाद् देवदत्तादिप्रतिपत्तृरूपकत्वनैक (कर्त्रने क) त्वात् । कर्त्रे कत्वात् [१७३.५]तर्हि इति सिद्धान्तवादी। अयमस्याशयो यदि सत्यप्येकस्मिन्नस्मिन् करणेऽनेकत्र घटादिके कर्मणि कर्त्रनेकत्वादनेकक्रियोदयो वर्ण्यते तर्हि कर्त्रेकत्वात् क्रियैकत्वमिति सामर्थ्यादायातम् ९. सद्विपरीतः S २. सम्बन्धाभावत: S इति तु न युक्तं, ' सम्बन्धो भावतो ' इति तु अनुटीकानुरोधेन सम्यक् पाठः ।
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org