________________
पृ. १७४. पं. ११] हेतुबिन्दुटीकालोकः।
३८९ ततश्च न करणैकत्वानुविधानं क्रियैकत्वस्येति किमनेनोक्तेनापीति । स्यादेतत् यथा तत्र कर्तारोबहवः प्रतिपत्तारस्तथा करणान्यपीन्द्रियाणि बहून्येव ततश्च करणबाहुल्यादेवानेकत्र कर्मणि क्रियाबाहुल्यमिति करणैकत्वास्क्रियैकत्वं व्यवस्थितमिति । तदेतदवद्यम् । यतों ज्वल्यमाने दीपे प्रत्येकमेकस्मिन्नेवेन्द्रिये प्रदीपे वा करणे सर्वेषामेव प्रतिपतणामनेकघटादिकर्मविषयज्ञानक्षणानेकक्रियो दयात्साधारणनैकान्तिकत्वमनिवारितमेवेति । विश- 5 रारुषु [१७३.६] विशरणशीलेष्वित्यर्थः । अयमस्याभिप्रायो यः किल लब्धात्मसत्ताक एव पश्चात्स्वातन्त्र्येण कांचित्क्रियामभिनिवेशयति स कर्ता, यश्च क्रियासिद्धौ साधकतमः स करणमुच्यते । तथा सत एव कदाचिस्क्रियायोगादर्थान्तरभूता क्रिया जायते.क्षणमात्रस्थायी च कृत्स्ना(स्नो) भाव [62b] इति कथं सत्त्वमासाद्य तथाकारी तथा प्रतिपत्स्यते क्रियास्वर्था(क्रियामा)न्तरभूतामिति । संप्रति क्षणिकाक्षणिकयोरसाधारणदृषणमाह-न चे[१७३.८]ति। 10 सर्वकारकान्वयव्यतिरेकानुविधायिनीति विशेषणं हेतुभावेन वेदितव्यम् । रूपरसादिवै(सावि ववै)धर्योदाहरणम् ।
इदानीमेकज्ञानसंसर्गादित्यत्रैकशब्दार्थ निरूपयितुमाह तत्रे[१७३.१४]ति । एका. यतनसंगृहीत एकरूपा द्यायतनसंगृहीतोऽनेकत्रापि एकमेवेन्द्रियज्ञानमि [१७३.१५]ति । निराकारपक्षे यादिसंख्यानिरासार्थ एकः शब्दः साकार- 15 पक्षेपि चित्राद्वैतवादिमतेन तथैवैकशब्दः । प्रत्यर्थमि[१७३.१६]ति स्थूलेनायं व्यपदेशः कृतः । परमार्थतस्त्वेकस्मिन्नेव द्रव्ये परमाणुसमूहात्मके प्रति परमाणु तदाकारंधारीश्याग्दिर्शनं संक्षेपान्येव(दर्शनप्रसंगे यान्येव) ज्ञानान्युत्पद्यन्त इति ।। अस्मिंश्च पक्षे यच्चोद्यम् , यश्च परिहारस्तद् द्वयमपि विशेषाख्यानेऽस्माभिरभिहितमिति नेहोच्यते । योग्यताया [१७३.२३] इति प्रकरणात् प्रतिषेध्यतद्विविक्तप्रदेशयोः 20 स्वज्ञानोपजननयोग्यताया इत्यर्थः एकस्मिन् ज्ञाने संस्रष्टुं शीलं ययोस्तौ तथोक्तौ। व्याप्तिन्यायसमाश्रयाद[१७३.२८]शेषोपसंहारन्यायस्वीकारात् । प्रत्यासत्तेः [१७४.११ प्रत्यासत्तिन्यायसमाश्रयणादित्यर्थः । का पुनरत्र तयोः प्रत्यासचिः सम्भविनीत्याह-एकज्ञाने[१७४.१]ति ।
तस्माद् [१७४.८] घटात् । यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणाऽनुपलब्धिर्यदा 25 तत्स्वभावस्तदा ज्ञेयधर्मलक्षणा तद्विविक्कज्ञानमेव पर्युदासवृत्त्याऽनुपलब्धिरुच्यताम् , न . तु तत्स्वभावो वेति कुमारिलो [१७४.११] मीमांसावार्तिककारो मन्यत इति शेषः । कर्तृकर्मस्थत्वविवक्षयोपलब्धेद्वैतादनुपलब्धेरपि तथैव द्वैतमायातं न्यायत इति मन्यते । पटाभावव्यहारे तद्विविक्तप्रदेशज्ञानस्यैवोपयोगादनुपलब्धित्वं युक्तं नान्यस्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org