________________
३९०
पण्डितदुवैकमिश्रकृतो [पृ. १७४. ६. १२त्याशंक्य द्वयोरप्युपयोगाविशेष प्रतिपादयन्नाह यथे[१७४.१२]ति । प्रतियोगी निषेध्या(ध्यो) विवक्षितस्तत्स्मरणापेक्षम् [१७४.१३] । एतदेव प्रतिपत्तृव्यवहारेणोपपादयन्नाह तथाही[१७४.१ ४]त्यादि । अथैकैकत्रैकैकं नास्तीति कथं द्वयोस्तत्त्वार्थमिति चेत् ।
नैतदस्ति । एकैकस्मिन्नेकैकस्य विशेषण' त्वेनावश्यं भावात् । तथाहि यस्मात्केवलप्रदेशा5 कारं ज्ञानं मया संवेद्यते तस्माद्धटो नास्तीति व्यवहरमाणस्यापि प्रदेशो विज्ञानावच्छेदकत्वेनोपयुज्यत एव । तथा ग(य)तः केवलः प्रदेशोयं दृश्यते ततो नास्ति घट इति व्यवहरतोपि दर्शनं प्रदेशोपाधिभावेन व्याप्रियत एवेति ।
आहत्ये[१७५.२]ति निपातस्तत्क्षणमित्यस्यार्थे ।
तयो[१७५.१६]र्भावाभावांशयोः । उद्भवाभिभवाभ्यां यथासंख्यग्रहणा10 ग्रहणव्यवस्था [१७५.१६] ।
धर्मभेदे धर्मिरूपेणाभेदेऽपि धर्मयोभेंद इष्टः [१७५.१८]। नोऽस्माकं स्थानं 'स्थितं व्यवस्थानं मतमिति यावत् तस्मिन् । उद्भवाभिभवात्मत्वात् [१७५.१८] उद्भूतानुद्भूतरूपत्वात् । ग्रहणं [१७५.१८] चशब्दादग्रहणं चावतिष्ठते तयोरिति
प्रकर[63ajणात् । 15 एतस्मिन्व्याख्याने भावप्रधानः साधनशब्दो वार्तिककारस्य विवक्षित उन्नतव्य
इत्यभिप्रायेण साधनत्वमि[१७६.६]ति व्याचष्टे । सिद्धिहेतुत्वशब्दसामर्थ्याच्च कस्यचिदिति लब्धम् । तदयोगात्सि[१७६.७]द्धिहेतुत्वायोगात् । दूषणान्तरमत्र समुच्चिन्वन्नाह अभावस्ये[१७६.९/ति च । अभावस्म नास्तीति ज्ञानजनने
[१७६.१०] नित्यं तज्जननप्रसङ्ग [१७६.१०] इति योजयित्वा कुत एतदित्य20 पेक्षा यामनपेक्षितसहकारिण [१७६.९] इति हेतुभावेन विशेषणपदं योज्यम् ।
तदनपेक्षत्वमेव कथमस्येत्यपेक्षायामनाघेयातिशयं [१७६.१०] तत्प्रति (यतयेति) योज्यम् । साधनत्वायोगात्त[१७६.११स्य प्रतिषेधमात्रस्येति प्रकृतत्वात्प्रत्येयम् । तस्य साधनासिद्धरित्यस्व एक(एकां) विधामभिधाय अपरामुपदर्शयितुमाह अथवे.
[१७६.११]ति । साधनमेव [१७६.१२] साधकमेव निश्चायकमेवेति' यावत् 25 तदुभ(द)यप्रसङ्गात् [१७६.१५] नास्तीति ज्ञानोदयप्रसंगात् ।
अन्यथा [१७६.२५] भावरूपसंसृष्टत्वप्रकारेण । तयोगात् [१७६.२६] तस्याभावांशस्यायोगात् । सा पररूपात्सं(पास)सृष्टरूपता । ., १. स्थिते ।
२. साधकत्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org