________________
पृ. १५०. पं. १७.] हेतुबिन्दुटीकालोकः ।
३७५ कारणमिति । तदुक्तं "भूतियैव क्रिया सैव” इत्यादि । इत्थं चैकप्रहारनिय(ह)तमेव तत्सर्व दिगम्बरेरितम् । ततश्च क्षणिकस्यैवार्थक्रियोत्पत्तेः सत्त्वं क्षणिकत्वमेव साधयद् विरुद्धमाचक्षाणाः क्षपणा अनेकान्तत्वे च साध्ये साधनमिदमुपनयन्तः स्फुटमहीकावेति- . (महीका एवेति) 'उपेक्षामेव प्रे (वतामहन्तीति ।
स्वभावहेतुं व्याख्याय कार्यहेतुं व्याख्यातुकामो वार्तिककारस्य कार्यहेत्वभिधानस्य 5 निमित्तं दर्शयन्पूर्वापरयोः संगतिं तदेवमि[१५०.३]त्यादिना करोति । तद्गतं [१५०.५] कार्यहेत्वाश्रितम् । कस्मात्पुनः स्वभावहेतुवदप्यस्यान्वयव्यतिरेकावेव न प्रतिपाद्येते, येन तद्गता परभ्रान्तिकारणोपादानार्थमेव कार्यहेतुविषयो[प]दर्शनं वयेत इति आशंक्य कार्यहेतावि[१५०.४]त्यादि योज्यम्। तयोर[१५०.४]न्वयव्यतिरेकयोः । तर्हि कार्यकारणभावसिद्धिरेतद्दर्शनीया ततश्च तां दर्शयितुमिति किं नोच्यत 10 इत्यपेक्षायां तस्याश्चे[१५०.५]ति योज्यम् । तस्याः कार्यकारणभावसिद्धेः । हेतोः प्रत्यासन्नत्वात्. [56b] हतोर्व्यतिरिक्त [१५०.७] इत्याचष्टे । कार्य [१५०.७ कार्यमेवेति विवक्षितं । 'त्रिधैव स' इति नियमस्य पूर्व प्रतिपादितत्वात् अत एव कस्माकार्यमेवे[१५०.८ति पश्चाच्चोदयिष्यते। अनर्थान्तरे व्यावृत्तिभेदात् परिकल्पितव्यावृत्त्यन्तररूपे धर्मान्तरे । असाधारणं कार्य[१५०.९]।
15 दिङ्'नागेन (सर्वव्यक्तिष्वनुपग(ष्वनुग)तप्रत्ययप्रसूतिः ? )।
सर्वथा तद्भावमेव प्रतिपादयन्नाह -अग्नेरि[१५०.१७]ति । अस्याश्रितत्वादनेः अग्नित्वं सर्वामिव्यापनादनुगतप्रत्ययहेतुत्वविवक्षयैव, सामान्यधर्मा अपि गमकाभिप्रेतास्त इव । तार्णत्वादेः सर्वाग्न्यव्यापनाद् व्यावृत्तप्रत्ययहेतुत्वा(त्व)विवक्षया विशेषधर्मत्वं विवक्षितम् , न तु सर्वथा सामान्यरूपत्वमस्य निराचिकीर्षितम् सर्वतार्णादिवह्निष्वनुगत- 20 प्रत्ययप्रसूति हेतुत्वात् , सामान्यरूपस्य चात्राव्याघातात्, अन्यथा तार्णवयादिजन्य रूपतयावधारितात् धमान्वयता(मान्न वह्निता)र्णाद्यनुमानं स्यात् विशेषरूपस्याव्यापकतया अननुमेयत्वात् । तेपि विशेषधर्मा गम्याः स्युः, इष्यन्ते चाग्नेः सामान्यधर्मा एवामित्वद्रव्यत्वसत्त्वज्ञेयत्वादयो गम्या इति भावः । धमस्यापि विशेषधर्मवत्सामान्यधर्मा गमकाः स्युः न चेष्यन्ते सत्त्वज्ञेयत्वपार्थिवत्वादयो गमका इति भावः । कोऽसौ धूमाश्रितो विशेषधर्मो 25 १. ' आचार्येण ' [१५०.१३] इत्यस्य विवरणं दिग्नागेन इति भाति ।
२. ' सर्वव्यक्तिष्वनुगतप्रत्ययप्रसूति ? ' इदं शंकाचिह्नितं पदं नात्रत्यं किंतु अग्रेतनं भाते। तच ' अग्नेरिति' इत्यस्य अनन्तरं यदि स्यात् तदा संगच्छेतापि । तत्रापि सामान्यपदं गलित भाति । तथा च सर्वव्यक्तिष्वनुगतप्रत्ययप्रसूतिः सामान्यं इत्यर्थः स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org