SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ पण्डितदुर्वेक मिश्रकृतो [ पृ. १४९. पं. ३ अर्थक्रिया कार्यं सं ( सं ) पादनं कुतो न कुतश्चित् । अनेनान्यथाऽनुपपत्तेर्विपर्यये बाधकं प्रमाणं समर्थकं दर्शितम् ३७४ “अन्यथाऽनुपपन्नत्वं यस्यासौ हेतुरिष्यते । दृष्टान्तौ द्वावपिस्तां वा (१) याचातौ हि न कारणम् ॥ " इति न्यायात् । 5 तन्न तावदक्षणिको भावः कार्यं कर्तुं शक्नोति । तस्य क्रमयौगपद्याभ्यामर्थक्रियाविशेतचत(राधात्) नापि क्षणिको भावः कार्यं कर्तुं प्रभवति । तथाहि किं क्षणिको भावः स्वसत्ताकाले कार्यकरणस्व॰भावोऽथान्यदा । यदि प्रथमंविकल्पस्तदा तदैव कुर्यात् । स्वसत्ताक्षणे च कार्यकृतौ सर्वं जगदेकक्षणवर्ति प्राप्नोति । तथाहि कारण स्वसत्ताक्षण एव यत् कार्यमकृत तदप्यन्यस्य कारणमिति तदपि तदैव स्वकार्यं कुर्यात् । तदपि कारणमन्यस्येति त 10 तदैव कुर्यादेवमुत्तरेष्वप्ययमेव न्याय इति । सत्यम्, का [562] रणं स्वसत्ताक्षण एव कार्य - ङ्करोति, तत्करणस्वभावत्वात्, केवलं कार्यमन्यदोत्पद्यत इति चेत् । तर्हि कार्यमपि तदैवोत्पघेताऽन्यदा तत्कालं परिहृत्य कार्योत्पत्तिर्विरुध्येत 'उत्पत्तविष्यमाणां ( णायां) वा समनन्तरो - त्पादविरोधः । तथाहि तत्करणसमर्थस्यापि कालमुज्जित्वा जायमानस्य कार्यस्य कारण - कृतोपकारपराङ्मुखस्य योऽयं समनन्तरनियम एतद्विनाशानन्तरमेवेदमस्य कार्यमिति 15 तस्यानुपपत्तिः । सोयं कारणविनाशो विरूपाख्योऽकिञ्चित्करस्तथापि यदि तत्समनन्तरनियमः कार्यस्य स्यात् तदा नित्यस्यापि कारणत्वमप्रतिहतं स्यात् । तथाहि " यथा स्वसत्तालक्षण एवं कार्यकरणस्वभावे क्षणिके भावे सत्यपि न तदैव 'कार्याण्युत्पद्यन्ते अपितु कालान्तरे, तथा नित्येपि भावे सर्वदा तत्करणसमर्थेऽपि कार्याण्येव विलम्ब्य विलम्ब्योत्पद्यन्त इति किं न समानम् । न च द्वितीये क्षणे निर्व्यापारतया सदसतो20 रक्षणिकक्षणिकयोः कश्चिद्विशेष इति । " यदि नामाह्रीकोक्तिरुपेक्षणीया प्रेक्षावतां तथापि किञ्चिदुच्यते । 'इह खलु कार्यकारित्वं वस्तूनां न व्यापारसमावेशात् उत्पादातिरेकिणो व्यापारस्यानुपपत्तेः, नापि कार्येण सहोत्पादः, सव्येतरविषाणयोरिव सहभुवोरन्यतरकारित्वानुपपत्तेः । " असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः । " 25 इति न्यायात् । किं तर्हि किञ्चिदनन्तरं सत्तयाभिसम्बध्यमानं प्रति नियतप्राग्भावित्वमेव, कार्यस्यापि नियमेन तदनन्तरभावित्वमेव तज्जन्यत्वम् । सति चैवं स्वसत्ताकाले कार्य - स्वभाव भाव इति कोऽर्थः ? तत्सत्ताकालं पूर्वं कृत्वा कार्यं सत्तयाऽभिसंबध्यत इति । तथा स्वलक्षण (स्वक्षण) एव करोतीत्यस्यापि कोऽर्थः अनन्तरभाविकार्यात्पूर्वं सद्भवति १. अत्र प्राक्तनं ' अन्यदा' पदं समाकृष्य अन्यदोत्पत्तौ इष्यमाणायाम् इत्यर्थः कर्तव्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy