________________
३७३
पृ. १४९. पं. ३.] . हतुबिन्दुटीकालोकः । काल एव । तत्कारण[क]स्य [१४८.२१] द्वितीयादिक्षणभावित्वेनाभिमतकार्यकारकस्य तदैकक्रियाकाले, एव[१४८.२०]कारो भावादित्यस्मात्परों द्रष्टव्यः । अनेन च यद्यदा यज्जनसमर्थं तत्तदा जनयत्येव यथा अन्त्या कारण सामग्री । द्वितीयादिक्षणभावित्वेनाभिमतकार्यजननस्वरूपश्चाक्षणिकः प्रथमक्षण इति स्वभावहेतुप्रसङ्गं सूचयति । नापि युगपत् [१४८.२१] । [55b] अक्षणिकः कार्याणि करोती' 5 [१४८.१८]त्यभिसम्बध्यते । येन स्वभावेन तत्कार्यमजीजनत्तस्य स्वरूपस्यानुवृत्तेरित्यभिप्रेत्य पुन'स्तत्करणप्रसङ्गाचे[१४८.२२]त्याह । अनेनापि समुदाये यज्जननसमर्थ तत्तदा तत्तज्जनयत्येव यथाऽन्त्यः कारणकलापः । कृतकत्वेनाभिमतकार्य. करणरूपश्चाक्षणिको द्वितीयादिक्षण इति स्वभावहेतुप्रसङ्गमेव दर्शयति । अनयोश्च प्रसङ्गहेत्वोरुपदर्शितयोरादुन्नीयमानयोश्च प्रसङ्गविपर्यययोर्यावत्संभवं दूषणं तदुद्धरणं चास्मा 10 भिर्विशेषाल्याने समीचीनं निरूपितमिति तत एवावगन्तव्यमिति । अकारकरूपाविशेपादु [१४८.२३] इदानीं यदकारकरूपमस्य तस्मादविशेषादित्यर्थोऽवसातव्यः। भेदप्रसङ्गः [१४८.२५] शक्ताशक्तयो रूपयोरित्यर्थात् । अत्रैवोपपत्त्यन्तरमुपचिन्वन्नाह नित्यश्चे[१४८.२५]ति । (पूर्वोत्तरकालभावा च उपपत्त्योर्भेदोऽवसेयः पूर्वकालहेतुरकाले च ) एकदा [१४८.२८] एकस्मिन्नेव क्षणात्मनि काले सर्वस्य 15 कर्तव्यस्यैकदा [१४८.२९] एव कृतत्वादर्थक्रियाकारित्वाभावादसत्त्वं स्यात् । इति[१४९.१ हेतौ । प्रकरणमुपसंहरन्नाह एव[१४९.२]मिति ।
आर्य'ज्ञानं तन्वंतीति आयतनानि । चक्षुरादीनि[१४९.३] च तान्यायतनानि चेति तथा । अन्तर्व्याप्तिवादिनोप्यस्य मते प्रमाणसिद्धस्यैव धर्मित्वं वाच्यमन्यथान्ताप्तिरसमर्थिता स्यात्। ततश्चक्षुराद्यायतनानाममीषां प्रमाणसिद्धानामिति द्रष्टव्यम् । 20
स्यादेतद् यत् सत् तत्क्षणिकमेवेति नियतं क्षणिकत्वं साधयितुं किल सत्त्वाख्यो हेतुरुपादीयते । अयं चाखिल वस्तु नाक्षणिकं नापि क्षणिकमिति साधयन्साध्यविपर्ययसाधानाद्विरुद्ध एव । तथा चावादीद वादन्याये स्याद्वादकेशरी-"अखिलस्य वस्तुनोऽनेकान्तिकत्वं सत्त्वात् । अन्यथार्थक्रिया कुतः” इति । एतच्च व्याचक्षाणेन कुलभूषणेन टीकाकृता एवं व्याख्यातमुपपादितञ्च-" अखिलं चराचरे सूक्ष्मव्यवहित- 25 विप्रकृष्टं वस्तु धर्मित्वेनोपात्तम् । अन्तो धर्मो नैकोऽनेकोऽन्त आत्मा स्वरूपं यस्य तद्भावस्तत्त्वम्-अयं साध्यो धर्मः सत्त्वादिति हेतुः। अन्यथाऽनेकात्मकत्वाभावप्रकारेण
१. पुनस्तत्क्रियाप्रसङ्गात् । २. कोष्ठकान्तर्गतः पाट: असम्बद्धो भाति । :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org