SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३७२ पण्डितदुर्वेकमिश्रकृतो . [पृ. १४८. पं. ४'न भवति येनैकनिषेधेनापरविधानात्तस्य निषेधो भवतीत्याह-विधिप्रतिषेधयोरि[१४८.४]ति । अयमभिप्रायः-क्रमो न भवतीति अयमेवाक्रमविधिः । सोपि न भवतीति तदैव तस्य निषेधः अनयोश्चैकाधिकरणयोरेककालिकयोर्विरोधस्तस्मात्तथाभूतस्यासंभव इति । तस्याप्रतिषेध [१४८.३] इति त्वपाठ एव । कारणमपि कारणापेक्षया कार्य5 मेवेति कारणग्रहणम् , न तु कारणत्वेनास्योपयोगोऽत्र कश्चित् । कार्य एव प्रकारान्तरा संभवस्य चिन्त्यत्वात् ; यद्वा कारणेन क्रियमाणे कार्य इति ज्ञापनार्थ कारणग्रहणं वास्तवं रू(वरू)पानुबादकं प्रतिषेधस्य यद्विरुद्धं तस्योपलब्धिरित्याशंका एतदेवोपपादयन्नाहव्यवच्छिद्यमाने[१४८.१०]ति । इतरस्य व्यवस्थानमि[१४८.१०]ति तथा व्यवच्छिद्यमानप्रकारादितरव्यवस्थानमिति तथा। सम्भवं हेतोः [१४८.१५] सद्भा10 वमिति प्रकरणात् । संभवग्रहणं चोपलक्षणं तेन पूर्वसिद्धां च. व्याप्तिं प्रदात्वपि द्रष्टव्यम् । विरोधसाधनमेवा[१४८.१५र्थात्प्राक्प्रवृत्तमित्यवसेयम् । बाधकमित्यस्याविरुद्धोपलब्धेः साध्यविपर्यये बाधकं [१४८.१५] प्रमाणमुच्यत इति चाध्याहार्या(4)क्रियाऽपेक्षयाऽयं क्त्वाप्रत्ययः कार्योऽन्यथा कां क्रियामपेक्ष्येयं पूर्वकाला प्रदर्शनक्रिया प्रदर्शयितव्या यत्रायं भवेत् , यथाश्रुति भिन्नकर्तृकायां च क्रियायामयं प्रसज्येत पुरुषसम्ब15 धित्वात्प्रदर्शनस्येति । विरुद्धमात्राभिप्रायेण शीतोष्णस्पर्शयो रि[१४८.१६]त्युदाहरति । ननु क्रमाक्रमाभ्यां कार्य कामं व्याप्यतां तथाप्यक्षणिकः क्रमेणाक्रमेण वा कार्य करिष्यति। सति चैवं व्यापकानुपलम्भोऽसिद्ध इत्याशंक्याह-तत्रति[१४८.१८] । अवि शेषात् [१४८.१८] पूर्वरूपाविशेषात्। एतदेव दृष्टान्तव्याजेन व्यनक्ति अकारकाव20 स्थायामिवे[१४८.१८]ति । अपेक्षितसहकारिप्रत्ययः सन्करोति नान्यदेत्याह-सह कार्यपेक्षा चे[१४८.१९ति । अनुपन्यसनीये[१४८.२०ति च सम्बन्धः; कुत इत्याह द्विविधस्यापी[१४८.१९ति । अथ यथा भिन्नदेशानेककार्यकारित्वमेकस्थ स्वहेतु(तो)स्तथोत्पादादुपपद्यते तद्भि(तद्वद्भि)नकालानेककार्यकरणमुपपत्स्यते तत्कुतः क्रम कारित्वानुपपत्तिरक्षणिकस्येति चेति(चेत् )। तदेतच्च'तुःस(शोत्या क्षणभङ्गसिद्धावस्मामिः 25 सूक्तं प्रत्युक्तमिति तत एवानुगन्तव्यम् । ननु कारणलक्षणस्य क्रमस्य क्षणिकपक्षेप्यनुपपत्तेः समानो दोष इति चेदेतदपि तत्रैव निर्णितमिति नेहोच्यत इति । सर्वेषां [१४८.२०] चेति द्वितीयादिक्षणभाविनामित्यवसेयम् । एकक्रियाकाल एव [१४८.२०] प्रथम क्षणक्रिया १. सद्भाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy