________________
.
पृ. १४८. पं. ३] . हेतुबिन्दुटीकालोकः।
३७१ चेति । कार्यजन्मनः' [१४७.८] कार्योत्पत्तेः । विप्रकर्षिणां [१४७.१०] स्वभावादिविप्रकर्षयुक्तानां ने[१४७.१४]ति सिद्धान्ती । उभयथा [१४७.१५] तस्य प्रकारान्तरस्व दृश्यत्वादृश्यत्वप्रकारेण । कार्यान्तरसाहित्यासाहित्यरूपे क्रम योगपद्ये विवृण्वता चानेन कार्यधर्मत्वं क्रमयोगपद्ययोळक्तमुपदर्शितम् । अत एव क्रमयोगपद्याभ्यां कार्यक्रियाव्याप्तेत्यस्माभिर्व्याख्यातं तथा । तदुभयावस्थाविरहेपि [१४७.१७] 5 कार्यान्तरसहितासहितावस्थाऽभावेप्यकुरादेरिति प्रकरणात् । अन्यथाभवनं [१४७.१८] प्रकारान्तरम् । भवत्वेवं, ततः किमायात'मित्याह-तस्य चे[१४७.१८]ति । अनेन दृश्यात्मत्वं तस्य समर्थितम् । अस्तुं दृश्यानुपलम्भात् कस्मिंश्चिद्देशे काले च तस्याभावव्यवहारोऽन्यस्मिन्पुनर्देशे काले चाप्रतिषेधात् कथं तत्र प्रकारान्तरस्याभावः सिद्धयतीति आशंक्याह-तस्य चे[१४७.२३]त्यादि । अङ्करादिभावस्य अङ्कुराद्युत्पादस्य 10 अवस्थाव्यवहिर्भावनिषेधे कार्यान्तरसहितासहितावस्थाबहिर्भावस्ताभ्यां प्रकारान्तरं तस्य निषेधे दृश्यानुपलम्भकृते सति पनि( सति नि )षेध इत्याह-कयोश्चिदि[१४७.२ ४]ति । देशान्तरादौ ( १४७.२४ ) भावेपी[१४७.२५]ति तस्याङ्खरादेरिति प्रकरणात् न काचित्क्षतिः [१४७.२५] । किं भूते देशान्तरादावित्याह क्रमेणेत्या[१४७.२ ४]दि। इतरस्मिन्वर [१४७.२ ४] युगपदकुरादि- 15 भाववति वा । एतच्च हेतुभावेन विशेषणम् । अयं चाशयो देशान्तरादिरप्येतद्देशान्तरवत्क्रमेण वा तद्भाववान् युगपदा भवितुमर्हति, तदुभयाऽवस्थाबहिर्भावस्य निषिद्धत्वात् । सति चैवमदोष एवेति । न काचित्क्षतिरि[१४७.२५]ति ब्रुवतश्चायमभिप्रायःकार्यस्य चैकत्रैकदावस्थाद्वयबहिर्भावो निषिद्धोऽन्यदापि तेन भवता प्रमाणपरिदृष्टात्मनैव भवितव्यम् अन्यथा तत्कथं देशान्तरादौ प्रकारान्तरमाशंक्येति(क्येतेति) । प्रकरणमुप- 20 संहरन्नाह तत] [१४७.२५] इति । ___ ननु संप्रत्येवोक्तः स्वभावानुपलम्भ एवेत्यादि तत्कथमिदानीमुच्यते प्रत्यक्ष [१४७.२५] इत्यादीति चेत् । नैष दोषः पूर्वं हि मूढं प्रतिपत्तारं प्रति तथोक्तमधुना पुनरमूढं प्रतीति को व्याघातः __क्रमयोगपद्ययोरि[१४८.१]ति क्रमाक्रमयोरित्यर्थः सकृत्प्रत्युपलक्षणेन योग- 25 पशब्देनाक्रमस्यैव विवक्षितत्वात् अन्यथाऽन्योऽन्यव्यवच्छेदरूपता दुरुपपादाऽऽपद्यते ततः सर्वत्रैवाक्रमार्थी(?) योगपद्यार्थः । अतएवास्माभिरक्रमशब्देन योगपद्यमनूदितमिति । तस्य [१४८.३] प्रकारान्तरस्य प्रतिषेधः । [55aj'उभयनिषेधात्मकमेव प्रकारान्तरं किं
१. कार्यात्मन: S.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org