________________
पण्डितदुर्वेक मिश्रकृतो
[ पृ. १४६. पं. १२नौव्याणामसत्त्वप्रसङ्गेनाव्यापितालक्षणदोषो द्रष्टव्यः न चासद्भिस्तैरन्यस्य योगो युक्त इति । अन्यथा [१४६.१२] स्वज्ञानजननमप्ययोग्य सक्तत्वोपगमे (म ) प्रकारेण (?) यदि हि सामान्यादिति स्वज्ञानं जनयेत्तदार्थत्वेन व्यवस्थाप्येत नान्यथेति भावः । आदि[ १४६.१२] शब्देन द्रव्याव्यवस्थादिसंग्रहः ।
5
३७०
क्षणिकत्व [१४६.२७] इति सत्सप्तमीयम् । क्रमयौगपद्याभ्यामि[१४६.२८]ति क्रमयौगपद्यकारित्वाभ्यामिति द्रष्टव्यम् इतरथा कार्यधर्माभ्यामाभ्यां कारणधर्मः कार्यकारित्वं कथमिव व्याप्येत । यथाचाम् कार्यधर्मौ तथोपरिष्टाद्भट्टार्चटेन एवं स्फुटयिष्यते ।
अर्थक्रियाकारित्वमात्रक्रमाक्रमकारित्वात्मकार्थक्रियाकारित्वविशेषयोश्वोभयव्याप्तिकत्वात्मकं 10 सत्त्वं क्रमाक्रमकारित्वाभ्यां व्याप्तमित्युच्यते । अन्यथा सामान्येन विशेषो व्याप्यते । वृक्षत्वेनेव शिंशपात्वम् । न तु विशेषेण सामान्यं व्याप्यते । वृक्षत्वमिव शिंशपात्वेनेति । कथमिदमुच्यमानं शोभेतेति । ततो [१४६.२९] व्याप्यव्यापकभावात्कार्यकारणशक्तरूपव्यापकयोः क्रमाक्रमकारित्वयोर्निवृत्ते [ १४७.१ ]र्निवृत्तत्वात् । त ( क ) दा निवृत्तिरित्य - पेक्षायामाह अक्षणिकत्व [ १४७.२] इति अक्षणिकत्वे सति । तत्र एवाक्षणिकत्वा15 द्विपक्षान्निवृत्तेरिति च सामर्थ्यादपादानं द्रष्टव्यम् । कथं तयोस्ततो निवृत्तिरित्याह - विरोधादि[१४७.१]ति । विरोधादित्यनुपपत्तेरित्यर्थो न तु शास्त्रनिर्दिष्ट लक्षणयोर्विरोधयोरन्यतरविरोधवशादिति । ' विरोधशब्देनायोगस्य विवक्षितत्वात् ततश्चाक्षणिकस्य क्रमयोग - पद्याभ्यामर्थक्रियासिद्धिमनुसरता सौगते विरोध्यस्य (?) क्षणिकः प्रत्येतव्यो विरोधिप्रतिपत्तिनान्तरीयकत्वाद्विरोधसिद्धिरित ' यदीरितं शङ्कराचार्येण तदपहस्तितम् । अयोगपक्षेऽपि 20 यावत्सम्भवं दूषणं प्रतिविधानं चास्माभिर्विशेषाख्यान एव विस्तरेणाभिहितमिति तत एवाsपेक्षितव्यमिति । अनेन च यस्य [न] क्रमाक्रमयोगो न त [ 54b] 'स्य क्वचित्सामर्थ्यम् । यथाकाशकुशेशयस्य । अस्ति चाक्षणिके सति व्यापकानुपलम्भः सत्त्वहेतोः साध्यविपर्यये बाधकं प्रमाणं दर्शितं वेदितव्यम् । यथा चास्याश्रयासिद्धत्वदोषो न संभवति । अ (त) - थास्माभिश्चतुःस(श)त्यां क्षणभङ्गसिद्धौ विशेषाख्याने चाख्यातमिति तत एवावगन्तव्यमिति । 25 विरुद्धयोः [१४७.३ ] सत्त्वासत्त्वयोः । ततोऽक्षणिकत्वात् ।
wwwwwwww.
'क्रमयौगपद्याभ्यामेवे[१४७.६ ] त्यत्र क्रमयौगपद्ये कार्यधर्मावेव विवक्षितें । तेनायमर्थः-कार्यमङ्कुरादिकं बीजादिना [१४७.६] केवलं वा क्रियैतान्यसहितं
१. अक्षणिकत्वे S 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org