________________
पृ. १४६. प. १०.] हेतुबिन्दुटीकालोकः। अनपेक्षाया [१४४.२५] हेतुभूतायाः स्वतो नस्वतः ख(नश्वरस्व)भावता तस्या प्र(अ)सिद्धेः हेत्वन्तरव्यापारनिषेधमात्राभिप्रायेण स्व तो[१४ ४.२५]ग्रहणं द्रष्टव्यम् । अभिधानीयमभिधातुमुचितमिति मन्यमान [१४४.२७] आचार्य इति प्रकरणात् । संभावनायां [१४५.४] न्यायबलायातायामिति द्रष्टव्यम् ।।
ननु सत्तायोगादितः सत्वमक्षणिकस्योपपत्स्यते तत्कथं शक्तिर्हि[१४५.१८]- 5 इत्याधुच्यमानं शोभत ईत्याशक्याह एवं मन्यत [१४५.२०] इति । त्रिपदार्थसत्करीति सचा तैरिष्यत इत्यभिप्रायेणाह-सामान्यादी[१४५.२२]ति । आदिशब्दात् विशेषसमवायपरिग्रहः । स्वरूपसत्त्वे च तेषामिष्यमाणे तद्वदन्येषामपि किं [न] भवेत् ? इतरेतराश्रयत्वे चैकासिद्धौ द्वयासिद्धिर्दोषः। तेषां [१४५.२४] वन्ध्यासुद्धादीनाम् । तस्यैव सत्तायोग इत्यर्थसामर्थ्यमेव भावलक्षणमायातमि[१४६,३]त्येष एव पाठः 10 इति[१४६.२]शब्देन हेत्वभिधाने अर्थ्यत इत्यर्थो दाहपाकादिस्तत्र सामर्थ्यं तदेव भावलक्षणमायातमिति संगतत्वात् । तस्यैव सत्तायोग इत्यर्थ इति प्रमादपाठः। एवं हि सामर्थ्यमेव भावलक्षणमित्यकारणमुक्तं स्यात् के च(क च) तत्सामर्थ्यमिति च नोक्तं भवेत् तस्मा[54a]'दित्यध्याहृत्य व्याख्याने च क्लिष्टमिष्टं स्यादिति। अत्रैवोपपत्त्यन्तरं समुच्चिन्वन्नाह-इत्थं चे[१४६.३]ति अनेन वक्ष्यमाणेन प्रकारेण । एवम[१४६.३]र्थसामर्थ्यभाव- 15 लक्षणमिति। तमेव प्रकारं दर्शयन्नाह अन्यथे[१४६.३]ति । अर्थसामर्थ्यादन्येन प्रकारेण ।
मीमांसकादीनां सत्त्वलक्षणमपास्य दिगम्बरस्यापि दूषयितुमाह । उत्पादे[१४६.६]ति । यद्येवमाहुः
• "घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥" [आप्तमी० ५९]' 20 " न नाशेन विना शोको नोत्पादेन विना धृतिः। स्थित्या विना न माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् ॥” इति ।
" प्रयोव्रतो न दध्यत्ति न पयोति दधिन्नतः ।
अगोरसवतो नोभे तस्माद्वस्तु त्रयात्मकम् ॥" [आप्तमी० ६०] इति । 25 कथमयुक्तमित्याह ध्रौव्येणे[१४६.७]ति । विरोधाद्धेतोरेकस्मिन्धर्मिण्य- .. योगात् [११६.७] । एषामित्यर्थात् । अनेनासंभवितां लक्षणदोषमाह-यथोक्तं । [१.४६.१०] यादृशमुक्तं उत्पादन्ययध्रौव्यात्मकं लक्षणं यस्य तत्तथोक्तम् । उत्पादव्यय१. भनपेक्षया ।
२. सतो s।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org