________________
३७६
पण्डितदुर्वेकमिश्रकृतो
[पृ. १५०. पं. २०दृष्टान्तीकृत इति चेद् एवं धूमत्वपाण्डुत्वादिभिरि [१५०.२ ३]त्यत्र धूमत्वादि निरूपयिष्यतो निर्देष्यामः । ___ ननु कार्यत्वस्य तद्भावाख्यैकसम्बन्धवशाद्गमकत्वं तत्कथं ' सर्वथा 'जन्यजनक
भावाद् । इत्युच्यत इत्याशंक्याह जन्ये[१५०.२०]ति। सर्वथा जन्यजनकभावमेव प्रति. 5 पादयन्नाह तथाही[१५०.२१]ति । पूर्वोक्तेन प्रकारेणाग्नित्वादीनां सामान्यधर्मत्वं ज्ञेयम् ।
सर्वं चैतद्धर्मभेदपरिकल्पनयोच्यते । तृणे भवो वह्निस्तार्णः [१५०.२२] । पर्णे भवः पार्णः [१५०.२३] । भावप्रधानश्चैष निर्देशस्तेन तार्णत्वादिभिरित्यर्थः।
ननु यथाऽमित्वं सकलामिव्यापनेनानुगतप्रत्ययहेतुत्वात्सामान्यधर्म उच्यते तथा धूमत्वमपि सामान्यधर्म एव । यथा च द्रव्यत्वादयोऽग्न्यनमिसाधारणत्वादनुगतबुद्धिनिबन्धन10 त्वेन सामान्यधर्मास्तथा पाण्डुत्वमपि धमनीहारादिगमनादनुगतज्ञानकारणत्वाच्च सामान्य
धर्म 'एव तत् कथममू विशेषणे धर्मित्वेनोदाहरणीकृते इति । साधूक्तं भवति(ता) केवलं बोधे यत्नः करणीयः । इह खलु सर्वधूमव्याक्तव्याप्यनुगतप्रत्ययहेतुधूमत्वमेव सामान्यविशेषो विजातीयाद् व्यावृत्तप्रत्ययपुरस्कारेण विशेषधर्मो विवक्षित इत्यादिचोद्यम
पोदितम् । एवं सत्यग्नित्वमपि विशेवधर्म इत्यग्ने विशेषधर्मस्यापि गम्यत्वमाया15 तमिति चेत् । तथाविधस्य विशेषधर्मस्य गम्यत्वेनेष्टत्वान्न कश्चिद्दोष इति । अवान्तरविशेषस्य तु तार्णत्वादेर्गम्यत्वम् धूममात्रस्य तदप्रतिबन्धान्निषिध्यत इति किमवद्यम् । धूमस्य विजातीयासाधारणधर्मवाचकश्च पाण्डुशब्दोऽस्ति योनेनोपात्त इति द्वितीयमपि चोद्यमपोद्यते । स [57a] 'चैतच्छब्दाभिलाप्यो धर्मो दुर्ज्ञान इत्यमिरत्र पाण्डुत्वादिति
नोच्यत इति सर्वमवदातम् ।। 20 स्वभावैवध[१५१.८] (वैध)मैरित्यर्थः । अपरोर्थ [१५१.१३] इति ।
यावद्भिरविनाभाविकारणस्य बायैकदेशस्यान्योऽर्थो न तु समुदायग्रन्थस्यामुमर्थमन्तरेण पूर्वार्थमात्रेण वाक्यस्यासंगतत्वात् । संबध्यत [१५१.११] इति तत्कार्य तेषां हेतुरि[१ ५१.१५]ति सम्बन्धः कार्य इत्यर्थो न तु पूर्वव्याख्यानोक्तमत्रापि व्याख्यानेऽभिसम्बध्यत इति बोद्धव्यम् । पूर्वव्याख्याने तेषां स्वगतानां धूमत्वादीनां हेतुरिति 25 प्राप्तावाँ सं(वर्थासं)गतेरेव संबन्धनीयत्वादिति । तेषामिति कारणगतानां धर्माणां हेतुस्तत्कार्यमिति पूर्वोक्तमभिसंबध्यते । कैः स्वभावैहेतुरित्यत्र गजनिमीलिकैव कृता एतदनुसन्धानेन न त्वनन्तरं वाक्यं भविष्यति । केचित्पुनरत्रैवमाहुः-उक्ते सति नियतमेतद् व्याख्येयं नान्यथा । सति चैवं पूर्वव्याख्यानस्य कोपयोगः । तस्माद् यतस्तदुत्पत्तिनियमाभावे सर्वथा जन्यजनका(क)भावो व्यवस्थापयितुमयुक्तस्तस्माद्यावद्भिः कारणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org