Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 420
________________ ३८३ पृ. १६८. पं. २३. ] हेतुबिन्दुटीकालोकः । न्तिकत्वाभिधानं च तेषां वैशेषिकसूत्रे यथाश्रुति द्रष्टव्यम् । न तु तैर्यथा व्याख्यायते । ते हि रूपादित्युद्भूतसमाख्यातादिति विशेष्य 'नाय नरश्म्यवयविन उपलब्धि निवर्तयन्तीति । 'तन्निरासार्थमु[१६८.१२]पलब्धिलक्षणप्राप्तानुपलब्धेरनैकान्तिकत्वनिरासार्थम् । कथं तन्निरासार्थमित्याह-उपलब्धी[१६८.१२]ति । अभ्यवाद् [१६८.१३] अन्यत्रेति सामर्थ्यात् । तदुपदर्शनेति[पि] यदि व्यभिचारसंभवः कथं तन्निराकृतं भवतीत्याहू 5 यदाही[१६८.१३]ति। कुतो व्यभिचारावकाश [१६८.१५] इति तयोपलब्धिलक्षण प्राप्त्या वर्तमानस्यानुपलब्धिरिति च प्रकरणात् । तस्या [१६८.१५] इत्युपलब्धिलक्षणप्राप्तानुपलब्धेः । ननु नैयायिकैर्यदुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वादिकमुच्यते तस्याप्यनवद्यत्वात् सैवोपलब्धिलक्षणप्राप्तिर्भवतापि कस्मान्नोच्यते किं पुनराहोपुरुषिकयाऽन्याभिधीयत इत्याशंक्याह 10 महत्त्वादिकं त्वि[१६८.१६]ति । तमेवा[60a] संभवमाश्रयाभावद्वारेण प्रतिपादयितुमाह नही[१६८,१७]ति । हिर्यस्मात् । न रूपादिव्यतिरिक्तं द्रव्यं स्वज्ञाने प्रतिभासते। कथं न प्रतीभातीत्याह आकारान्तरेणे[१६८.१८]ति रूपाद्यात्मनोऽन्येनात्मना । किं मूतेनेति आह तत्प्रतिभासे १६८.१८]ति तस्य रूपादेः प्रतिभासः प्रतिभासत इति कृत्वा स्वरूपमेव तस्य विवेकः प्रच्युतिस्तद्वता। अनेनानुपलन्भस्तद्भावव्यवहार- 15 साधको दर्शितः। प(घ)टप्रतिभासनेऽपि पटप्रतिभासव्यवस्था स्यादित्यतिप्रसङ्ग[१६८.१९]स्तस्मात् । इदानीं द्रव्यमभ्युपगम्य महत्त्वादेः तदुपलम्भकत्वमपाकर्तृकाम आह न चे[१६८.२०ति । तत्सम्बन्धपि महत्त्वसंबन्धेपि । खहेतुसमुद्भतेऽपि तत्रामहति द्रव्यात्मनि तस्याकिञ्चित्करत्वादिति भावः । खरूपेण महतस्तु किमर्थान्तरेण महत्त्वेन तद्बुद्धेरपि तत एवोत्पत्तेरिति चाभिप्रेत्य न च स्वरूपेणामहत 20 [१६८.२०] इति । एकस्मिन्नेव पक्षे स दोषो दर्शितोऽनेनेति द्रष्टव्यम् । अथ तत्संबन्धे मा भूदस्य खतो महत्ता किं नश्छिन्नमर्थान्तरभूतमहत्त्वरूपेणास्य ग्रहणं भविष्यतीत्याह-[१६८.२१7-पररूपेणेति। परस्य ततोऽन्यस्य महत्त्वस्य रूपेण । 'कथमन्नान्तं [१६८.२१] भ्रान्तमेव । अतस्मिंस्तद्ग्रहरूपत्वाद्धान्तेरित भावः । उपलम्भयतीत्युपलंभकम् । एतच्च महत्त्वमुपेत्योक्तं दूषणम् । न तु च महत्वा(त्व) 25 नाम किञ्चित् न चात्र स(तत्) कस्यचिदुपलंभकं नामेत्यपि वक्तव्यम् । रूपं वा द्रव्यस्योपलम्भकमिति वर्तते । कुतस्तस्यानुपलम्भकत्वमित्याह-तस्यापी[१६८ २ ३]ति । तस्य रूपस्य न तथा ग्राहकत्वमि[१६८.२४]ति सम्बन्धनीयम् । ग्राहयतीति १. तनिरासं. २. अपररूपेण । ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523