Book Title: Gyananjali Punyavijayji Abhivadan Granth
Author(s): Ramnikvijay Gani
Publisher: Sagar Gaccha Jain Upashray Vadodara

View full book text
Previous | Next

Page 485
________________ १९० જ્ઞાનાંજલિ तथाऽत्रापि 'अद्वेषश्चैव जिज्ञासा' (श्लो० ३५ ) इति पद्ये निरीक्ष्यते । ललितविस्तरावृत्ति -योगदृष्टिसमुच्चयादिषु यथा इच्छायोगादीनां स्वरूपं वर्तते तथैवाऽत्रापि प्रकरणे १८९९१ पद्येषु निरूप्यते । तथा योगदृष्टिसमुच्चये यथाऽवेद्यसंवेद्यपदवर्त्यपि मित्राद्याद्यचतुर्दृष्टिगतविशिष्टगुणान्वितो व्यावर्णितोऽस्ति तथाऽत्रापि मिथ्याटिरपि युक्तः स च तादृक्क्रियान्वितः' इति ५४ पद्ये व्यावणितोऽस्ति । एतानि पुनर्विशिष्टस्थानानि यान्यस्य प्रकरणस्य श्रीहरिभद्राचार्यकृतत्वमावेदयन्ति-- १. अत्राधिकारिणोऽप्युक्ता अपुनर्वन्धकादयः । त्रय-एव० श्लो० ३७ । अहिगारी पुण ___एत्थं विण्गेओ अपुणबंधगाइत्ति । -योगश० गा० ९. २. न जानाति तामन्यो नष्टनाशनः-श्लो० १३६ । ___ गुरुणो अजोगिजोगो० जोगिगुणहीलणाणढणासणा० -योगश० गा० ३७. ३. देवताबहुमानेन-श्लो० १६३ । गुरु-देवयाहि जायइ--योगश० गा० ६२. ४. शिवज्ञानं य आसाद्य--इत्यादि २६३-६५ शिवागमश्लोकाः एतीए एस जुत्तो सम्म असुहस्स खवग मोणेओ । -योगश० गा० ८५. ५. कायपातादिभावेऽपि शुभालम्बनयोगतः । -श्लो० १७१ । तह कायपाइणो ण पुण चित्तमहिकिञ्च बोहिसत्त त्ति। -योगश०-गा० ८८. ६. आश्चर्यमावतस्त्वाशु कश्चित् तेनैव जन्मना । -श्लो० ४१३ । ___ जइ तब्भवेण जायइ जोगसमत्ती। योगश० गा० ९२. ७. श्लो० ३९२तः ९४ मृत्युज्ञानचिह्नानि । णाणं चागम-देवय-पइहा--सुमिणंधरादऽदिट्टीओ । -योगश० गा० ९७. सोपेगैतेषामुपयुल्लिखितानां प्रमाणानामनुसन्धानेनेदं ब्रह्मसिद्धान्तसमुच्चयप्रकरणं श्री. हरिभद्राचार्यसंसूत्रितमेवाऽऽभाति । अपि चात्र मुख्यवृत्त्या योगशतकप्रकरणेनैव सह तुलना विहिताऽस्ति । किञ्च यदि श्रीहरिभद्रसूरिपादप्रणोतयोगविन्दु-योगदृष्टिसमुच्चय-अटकप्रकरण-षोडशकप्रकरण-विंशिकाप्रकरणादिभिः सहास्य प्रकरणस्य तुलना विधीयेत तदाऽस्य प्रकरणस्य श्रीहरिभद्रकृतत्वनिश्चायकानि प्रभूतानि प्रमाणानि समुपलभ्येरनित्यत्र न कश्चिसन्देहलेश इति । प्रयतिष्यते किलैतदर्थ समयान्तरे पृथग्लेखरूपेण । ___ अत्रैतत्किल ज्ञापनीयमस्ति यदिदं ब्रह्मसिद्धान्तसमुच्चयाख्यं प्रकरणं द्वात्रिंशत्पत्रं ४२३ पयं यावच खण्डितापूर्णरूपेण सम्प्राप्तमस्ति तथाप्यस्य प्रकरणस्य प्रान्तभागवत्ति एवं पत्रं पत्रद्विकमेव वा विनष्टं सम्भाव्यते, नाधिकमिति । अपि चैतत्प्रकरणावलोकनेनैतदपि सम्भाव्यते यत्-श्रीमद्भिहरिभद्रसूरिचरणैः सर्वदर्शनसमन्वयसाधकान्यन्यान्यप्येताशि भिन्नभिन्नानि प्रकरणानि संसूत्रितान्यवश्यमेव भविष्यन्तीति । अतस्तावदिदं निवेद्यते -येन कच्छमांडवीस्थखरतरगच्छीयजैनभाण्डागारप्रतिपालकेन शाह मोहनलाल पोपटलाल महानुभावेन स्वोपज्ञटोकायुता योगशतकप्रकरणप्रतिरतिचिर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610