________________
श्रीसुमति
साधु
दशवे अ०४
न कारवेमि करतपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं | महाव्रतवोसिरामि । सू० १०।
यतना
सू०१० से भिक्खू वा इत्यादि, से इति निर्देशे स योऽसौ महाव्रतयुक्तो, 'भिक्षुर्वा भिक्षुकी वा'-आरम्भत्यागाद्धर्मकायपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीत्याह-'संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा' तत्र सामस्त्येन यतः संयत:-सप्तदशप्रकारसंयमोपेतो विविधमनेकधा द्वादशविधे तपसि रतो विरतः, प्रतिहतप्रत्याख्यातपापकर्मेति, प्रतिहतं-स्थितिहासतो ग्रंथिभेदेन प्रत्याख्यातं-हेस्वभावत: पुनर्वृद्ध्यभावेन पापं कर्म-ज्ञानावरणादि येन स तथाविधः, दिवा वा रात्रौ वा एको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा, रात्रौ सुप्तो दिवा जाग्रत , कारणिक एका, शेषकालं परिषद्गतः, इदं वक्ष्यमाणं न कुर्यात् । ' से पुढविं वा' इत्यादि, तद्यथा-पृथिवीं वा भित्तिं वा शिला वा लेष्टु( लोष्टं) वा, तत्र पृथिवी-लोष्टादिरहिता, भित्ति:-नदीतटी, शिलाविशालः पाषाणः, लेष्टुः(लोष्टः) प्रसिद्धा, सह रजसा-अरण्यपांशुलक्षणेन वर्तते इति सरजस्कं वा 'कायं' कायमिति देह, सरजस्कं वा वस्त्रं-चोलपट्टकादि, एकग्रहणात्तज्जातीयग्रहणमिति पात्रादिपरिग्रहः, एतत्किमित्याह-हस्तेन वा पादेन वा काष्ठेन वा किलिओन वा-क्षुद्रकाष्ठरूपेण अङ्गुल्या वा शलाकया वा-अयःशलाकादिरूपया शलाकाहस्तेन वा-शलाकासंघातरूपेण नालिहितेति नालिखेत न विलिखेत् न घट्टयेत् न भिन्द्यात् , तत्रेषत् सकृद्वाऽऽलेखन, निरन्तरमनेकशो वाला ॥३६॥
Jan Education Intern
For Private
Personel Use Only
www.jainelibrary.org