Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपदेश: गा.५१५
सुमति साधु श्रीदशवै०
चू०२ ॥ २१७॥
अप्पा खल्लु सययं रक्खिअव्वो, सविदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ,सुरक्खिओ सबदुहाण मुच्चइ ॥ ५१५ ।। तिबेमि
इइ विवित्तचरिया चूडा समत्ता २॥
॥इइ दसवेयालियं सुत्तं समत्तं ॥ "असंक्लिष्टैःसमं वसे"दित्युक्तमत्र विशेषमाह-ण येति, कालदोषान्न यदि लभेत-न यदि कथञ्चित्प्राप्नुयान्निपुणंसंयमानुष्ठानकुशलं सहायं-परलोकसाधनद्वितीयं, किंविशिष्टमित्याह-गुणाधिकं वा-ज्ञानादिगुणोत्कटं वा, गुणतः समं वा-तृतीयार्थे पञ्चमी गुणस्तुल्यं वा, वाशब्दाद्धीनमपि जात्यकाञ्चनकल्पं विनीतं वा, ततः किमित्याह-एकोऽपि संहननादियुक्तः पापानि-पापकारणान्यसदनुष्ठानानि विवर्जयन्-विविध-अनेक प्रकारैः सूत्रोक्तैः परिहरन्विहरेदुचितविहारेण कामेष्विच्छाकामादिष्वसज्यमानः-सङ्गमगच्छन् , एकोऽपि विहरेत् , न तु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात् , तस्य दुष्टत्वात् , तथा चान्यैरप्युक्तं-" वरं विहां सह पन्नगर्भवेच्छठात्मभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैरपण्डितैर्न पापमित्रैः सह वर्तितुं क्षमम् ॥ १॥ इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः। असत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जनः ॥२॥" तथा-" परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः ? ॥३॥" तथा-"ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुरेभिश्च सह संगमम् ।। ४ ॥" इत्यादि |
IPI
२१७ ॥
१९
Jain Educat an inte
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276