Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 253
________________ सुमति साधु ० श्रीदश० ॥ २२१ ॥ Jain Education International प्रमादकार्यविक्षेपचेतसां तदयं यया । क्रियया अवबोधार्थ साधूनां तु पृथक्कृतः ॥ ७ ॥ लब्ध्वा मानुष्यकं जन्म, ज्ञात्वा सर्वविदां मतम् । प्रमादमोहसंमूढा, वैकल्प्यं ये नयन्ति हि ॥ ८ ॥ जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुते । संसारसागरे रौद्रे, ते भ्रमन्ति विडम्बिताः ॥ ९ ॥ ये पुनर्ज्ञानसम्यक्त्व चारित्रविहितादराः । भवाम्बुधिं समुल्लङ्घ्य, ते यान्ति पदमव्ययम् ॥ १० ॥ ये भव्यान् प्रतिबोध्य जैनवचनैः स्याद्वादसंभूषितै- निर्वाणाश्रितचेतसो विदधिरे स(साधुमार्गश्रितान् । साधूनां विधिना च सूरिपदवीमारोपयाञ्चक्रिरे, ते श्रीमज्जिनदेवसूरिचरणा रक्षन्तु सङ्कं सदा ॥ ११ ॥ समाप्ता श्रीवैकालिक टीकेति ॥ ग्रंथाग्रं ३५००, मंगलमस्तुलेखक पाठकयोः । संवत् १६६२ वर्षे वैशाखबदि ४ भौमे लिखितं । शुभं भवतु ॥ प्रत्यन्तरे - मूलं दयादानमुखाश्चतस्रः, शाखाः प्रशाखा नियमत्रतानि । पुष्पाणि संपत्प्रकराः फलं तु, मोक्षो भवेद् धर्मसुरद्वमस्य ॥११॥ इति दशवेकालिकलघुटीका समाप्ता ॥ छ ॥ शुभं भवतु || मंगलमस्तु ॥ श्रीगुरुभ्यो नमः ॥ परमगुरुभ्यो नमः ॥ मंगलमस्तु ।। संवत् १५१६ वर्षे माघ वदि १ गुरौ अधे हि श्रीघोघा वेलाकूले महाराजाधिराजपातसाह श्रीकृ तबदीन For Private & Personal Use Only प्रशस्तिपुष्पिके ॥ २२१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276