Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति
भ्रष्टशीलस्य
दोषाः
साधु श्रीदशवै० चू०१ ॥२०६॥
गा. ४९१. ४९३
सुसाधूना, स्तानां-सक्ताना, पर्याय एवैति गम्यते, एतदुक्तं भवति, यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसः तिष्ठन्स्येव संसाधनोऽपि, ततोऽपिक मावतः प्रत्युपेक्षणादिक्रियायां व्यापूताः, उपादेयषिशेषत्वात्प्रत्युपेक्षणादेरिति देवलोकसमान एवं पर्यायो महर्षीणां रतानामिति । अरतीनां च-भावतः सामाचार्यसक्तानां च, चशब्दात् विषयामिलापिणां च भगवल्लिंगविडम्बकानां क्षुद्रसत्वानां महानरकसदृशो-ौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाञ्चेति ॥ ४९१ ।। एतदुपसंहारेणैव निगमयनाह-अमर ति, अमरोपमं उक्तन्यायादेवसदृशं ज्ञात्वाविज्ञाय सौख्यमुत्तम-प्रधान प्रशमसौख्यं, केषामित्याह-रतानां पर्यायें-सक्तानां सम्यकप्रत्युपेक्षणादिक्रियाव्यङ्गये वि श्रामण्ये, तथा अरतानां पर्याय एक, किमित्याह-नरकोपमं-नरकतुल्यं ज्ञात्वा दु:खमुत्तमं-प्रधान, उक्तन्यायात् , यस्मादेवं रतारतविपाकस्तस्माद्रमेतासक्तिं कुर्यात्, केत्याह-पर्याय उक्तस्वरूपे पंडिता-शास्त्रार्थज्ञ इति ॥ ४९२ ॥ पर्यायन्युतस्यैहिकं दोषमाह-धम्माउ इति, धर्माद श्रमणधर्माद्भष्टं-च्युतं, श्रियोऽपेतं-तपोलक्ष्म्या अपगते, यज्ञाग्निमनिष्टोमाद्यनलं विध्यातमिव यागावसानेऽत्पतेजस, अल्पशब्दोऽभावे, तेजाशून्यं भस्मकल्पमित्यर्थः, हीलयन्ति-कदर्थयन्ति पतितस्त्वमिति पंक्यपसारणादिना, एन-उन्निष्क्रान्तं दुर्विहितमुनिष्क्रमणादेव दुष्टानुष्ठायिनं कुशीलास्तत्संयोगो(सङ्गो). चिता लोकाः, स एव विशेष्यते-दादुड्डिअंति, प्राकृतशैल्यादुद्धतदंष्ट्रं-उत्खातदंष्ट्रं घोरविषमिव-रौद्रविषमिव नागंसप्प, यज्ञाग्निसोपमानं लोकनीत्या प्रधानमावादप्रधानभावख्यापनार्थमिति ॥ ४९३ ।। एवमस्य भ्रष्टशीलस्यौषत ऐहिक दोषमभिधायैहिकामुष्मिकमाह-इहेकत्ति, इहैव-इहलोक एवाधर्म इति, अयमधर्मः फलेन दर्शयति
२०६॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276