Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति- साधु० भीदशबै०
॥२०९॥
गमेन-मरणेनैवं निश्चितः स्यादिति ॥ ४९७ ॥ अस्यैव फलमाह-जस्सेवत्ति, यस्येति-साधोरेवमुक्तेन प्रकारेणात्मा तु- 12 चिन्तनतुशब्दस्यैवकारार्थत्वादात्मैव भवेनिश्चितो दृढः यः सत्यजेद्देहं क्वचिद्विघ्न उपस्थिते, न तु धर्मशासनं-न पुनर्धर्माज्ञामिति, फलम् तंच तादृशं धर्मे निश्चितं न प्रचालयन्ति-संयमस्थानान्न प्रकम्पयन्ति इन्द्रियाणि-चक्षुरादीनि । निदर्शनमाह-उपपात- गा.४९७ वाता इव-संपतत्पवना इव सुदर्शनं गिरि-मेरु, एतदुक्तं भवति-यथा मेकं वाता न चालयन्ति, तथा तमपीन्द्रियाणीति ४९९ ॥ ४९८ ॥ उपसंहरबाह-इच्चेवत्ति, इत्येवमध्ययनोक्तं दुष्प्रयोगजीवित्वादि संप्रेक्ष्याऽऽदित आरम्य, यथा यदृष्ट्वा बुद्धिमान्नरः सम्यग्बुद्धथुपेत आयमुपायं विविधं विज्ञाय आय:-सम्यग्ज्ञानादेरुपायस्तत्साधनप्रकार: कालविनयादिविविधोऽनेकप्रकारस्तं ज्ञात्वा, किमित्याह-कायेन वाचाऽथवा मनसा-त्रिभिरपि करणैर्यथाप्रवृत्तः, त्रिगुप्तिगुप्तः सन् जिनवचनमहेंदुपदेशमधितिष्ठेत यथाशक्त्या तदक्कक्रियापालनपरो भयाद भावाय सिद्धौ तच्चतो मुक्तिसिद्धेः ॥ ४९९ ।। ब्रवीमीति पूर्ववत् ।।
समाप्तं रतिवाक्याध्ययनमिति चूला १ ॥
व्याख्यातं प्रथमचूडाध्ययनम् , अधुना द्वितीयमारभ्यते, अस्यौषतः सम्बन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तं, इह तु विविक्तचर्योच्यत इत्ययमभिसम्बन्धः
| ॥२०९॥
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276