Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 246
________________ समति- उपदेशः गा. ५०५. साधु श्रीदशवै० ॥२१४॥ पक्षप्राभूत्य लोकाबहुमानादि, अस्य विवर्जन, आकीर्णे हस्तपादादिलूषणदोषाद् , अवमाने अलामाधाकर्मादिदोषादिति, तथोN समष्टाहतं-प्राय उपलब्धमुपनीतं, उत्सनशब्दः प्रायो वृत्ती वर्तते, यथा “देवा उस्सन सायं वेयण वेयंति", किमित्याह भक्तपान-ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं, यत्रोपयोगः शुद्ध्यति, त्रिगृहान्तरादारत इत्यर्थः, "भिक्खग्गाही एगत्थ कुणह, बीओ अ दोसु उवजोगमिति" वचनाद् , इत्येवम्भूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योगा, तथा संसृष्टकल्पेन-हस्तमात्रकादिसंसृष्टविधिना चरेद्भिक्षुरिति उपदेशः, अन्यथा पुरस्कर्मादिदोषात् , संसृष्टमेव विशिनष्टि-तज्जात संसृष्ट इत्यामगोरसादिसमानजातीयसंसृष्टे हस्तमात्रकादौ यतिर्यतेत-यत्ने कुर्याद् , अतजातसंसृष्टे संसर्जनादिदोषादिति, अनेनाष्टमङ्गसूचनं, तद्यथा-" संसंटे हत्थे संसट्टे मत्ते सावसेसे दवे" इत्यादि, अत्र प्रथमो भङ्गः श्रेयान् , शेषाश्च चिन्त्या इत्यादि ॥५०५ ।। उपदेशाधिकार एवेदमाह-अमज्जेति, अमद्यमांसाशी भवेदिति योगः, अमद्यपः अमांसाशी च स्यादेते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधति-आरनालादिष्वपि संधानाद् ओदनाद्यपि प्राण्यङ्गत्वात्याज्यमिति, तदसत् ,अमीषां मद्यमांसवायोगात्, लोकशाखयोरप्रसिद्धत्वात् , संधानप्राण्यङ्गत्वतुल्यत्व चोदना स्वसाध्वी, अतिप्रसङ्गदोषात, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गात् इत्यलं प्रसङ्गेन । अक्षरगमनिकामात्रप्रक्रमात् , तथा अमत्सरी च-न परसंपवेषी च स्यात् , तथा अभीक्ष्णं-पुन: पुन: पुष्टकारणाभावे निर्विकृतिकश्च-निगेतविकृतिपरिभोगश्च भवेद्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह । तथाऽभीक्ष्णं गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये । किमित्याहकायोत्सर्गकारी भवेद् ईपिथप्रतिक्रमणमकृत्वा न किश्चिदन्यत्कुर्यात् , तदशुद्धतापत्तेरितिभावः । तथा स्वाध्याययोगे १४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276