Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 208
________________ सुमतिसाधु श्रीदशवै० अ०९, उ०३ विनीतस्य पूजाईत्वम् गा०४४१. ४४५ ॥ १७६ ॥ अवपातवान्-वन्दनशीलो निकटवर्ती वा एवं च यो वाक्यकरो-गुरुनिर्देशकरणशीलः स पूज्य इति ॥ ४४१॥ किंच- अण्णायत्ति, अज्ञातोञ्छ-परिचयाकरणेनाज्ञातः सन् भावोऽहं गृहस्थोद्धरितादि चरत्यटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तबहुमतमिति, एतदपि विशुद्धं-उद्गमादिदोषरहितं, न तद्विपरीतं, एतदपि यापनार्थ-संयमभरोद्वाहिदेहपालनाय, नान्यथा समुदानं च-उचितभिक्षालब्धं च-नित्यं-सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कदाचित्कं वा, एवंभृतमपि विभागतः, अलब्ध्वा -अनासाद्य न परिदेवयेत्-न खेदं यायात् , यथा मन्दभाग्योऽहं अशोभनो वा अयं देश इत्येवं विभागतश्च लब्ध्वा प्राप्योचितं न विकत्यते-न श्लाघां करोति सपुण्योऽई शोभनो वा अयं देश इत्येवं स पूज्य इति ॥ ४४२ ॥ किंच संथारेति, संस्तारकशय्यासन भक्तपानानि प्रतीतान्येतेष्वल्पेच्छता-अमूर्छया परिभोगः, अतिरिक्तपरिहरणं चातिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात् , य एवमात्मानमभितोषयति येन वा तेन वा यापयति सन्तोषप्राधान्यरत:-सन्तोष एव प्राधान्यभावे रतः-सक्तः स पूज्य इति ॥ ४४३ ।। इन्द्रियसमाधिद्वारेण पूज्यतामाह-सक्कित्ति, शक्याः सोदुमाशयेतीदं मे भविष्यतीति प्रत्याशया, के इत्याह-कण्टका अयोमया-लोहात्मका उत्सहता नरेण-अर्थोद्यमिनेत्यर्थः, तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशयनमप्यर्थलिप्सवः, न पुनर्वा कण्टकाः शक्या इति, एवं व्यवस्थिते अनाशया-फलाप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् वाङ्मयान्-खरादिवागात्मकान् कर्णसरान्-कर्णगामिनः स पूज्य इति ॥ ४४४ ॥ एतदेव स्पष्टयति-मुहुत्तेति, मुहर्त्तदुःखा-अल्पकालदुःखा भवन्ति कण्टका अयोमयाः, वेधकाल एव प्रायो दुःखभावात् , तेऽपि ततः कायात्सूद्धराः-सुखेनेवोद्धियन्ते व्रणपरिकर्म च ॥१७६ ॥ Jain Education Internal For Private & Personal Use Only Twww.jainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276