Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमतिसाधु० श्री दशवै ०
अ० ९,
उ. ४
॥ १८९॥
Jain Education Internationa
खलु तेथेरेहिं भगवंतेहिं चत्तारि विणयसमाहिद्वाणा पन्नत्ता, तंजहा - विणयसमाही, सुयसमाही, तवसमाही, आयारसमाही । सू० १६ । - विणए सुए य तवे, आयारे निच्चपंडिया । अभिरामयंति अप्पा, जे भवंति जिइंदिया ॥ ४५४ ॥
अथ चतुर्थ उच्यते, तत्र सामान्योक्त विनयविशेषोपदर्शनार्थमिदमाह - सुयं मे इति श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातमित्येतद् यथा षड्जीवनिकायां (पृ. २०) तथैव द्रष्टव्यं, इह खल्विति, इह-क्षेत्रे प्रवचने वा स्वशब्दो विशेषणार्थः, न केवलमिह, किं स्वम्यत्राप्यन्यतीर्थ कृत्प्रवचनेष्वपि, स्थविरैः - गणधरैर्भगवद्भिः-परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि - विनयसमाधिभेदरूपाणि प्रज्ञप्तानि प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनं तद्यथेत्युदाहरणोपन्यासार्थः - विनयसमाधिः १ श्रुतसमाधिः २ तपः समाधिः ३ आचारसमाधिः ४ तत्र समाधानं समाधिः - परमार्थत आत्मनो हितं सुखं स्वास्थ्यं, विनये विनयाद्वा समाधिः विनयसमाधिः, एवं शेषेष्वपि शब्दार्थो भावनीयः । १६ । एतदेव श्लोकेन संगृह्णाति - विणए इत्यादि, विनये यथोक्तलक्षणे श्रुते-अङ्गादौ तपसि - बाह्यादौं आचारे च मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, नित्यं सर्वकालं पण्डिताः सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याह-अभिरमयन्त्यनेकार्थत्वादाभिमुख्येन विनयादिषु युञ्जते आत्मानं जीवं किमिति ?, अस्योपादेयत्वात् क एवं कुर्वन्तीत्याह-ये भवन्ति
१६
For Private & Personal Use Only
विनय
समाधि
मेदाः
सू० १६,
गा. ४५४
॥१८२॥
www.jainelibrary.org

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276