Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति
अष्टादश
साधु
स्थानानि ०२१
श्रीदशवै०
स्थानम् १७। तथा प्रत्येकं पुण्यपापमिति, मातापित्कलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं प्रत्येकं-पृथक् पृथक् येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थः । एवमष्टादशं स्थानम् १८। एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानं, प्रत्येकं पुण्यपापमिति पञ्चदशमं स्थानं, शेषाण्यभिधीयन्ते, तथाऽनित्यं खल्वित्यनित्यमेव नियमतो भो! इत्यामन्त्रणे मनुष्याणां-पुंसां जीवितमायुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६ । तथा बहुं च खलु भो! पापं कर्म प्रकृतं बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे, बद्धं च पापकर्म चारित्रमोहनीयादि, प्रकृतं-निर्वर्तितं मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किश्चिद्गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानं १७ । पावाणं चेत्यादि, पापानां च-अपुण्यरूपाणां चशब्दात्पुण्यरूपाणां च, खलु भो! कृतानां कर्मणां, खलुशब्दः कारितानुमतविशेषणार्थः, भो इति शिष्यामन्त्रणे, कृताना-मनोवाक्काययोगेरोघतो निवर्तितानां कर्मणां-ज्ञानावरणीयावसातावेदनीयादीनां प्राक्-पूर्वमन्यजन्मसु दुश्चरितानां-प्रमादकषायजदुश्चरितजनितानि, दुश्चरितानि कारणे कार्योपचारात् , दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात् , एवं दुष्पराक्रान्तानांमिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात् , दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात , इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि तु वधबन्धनादीनि, तदमीषां एवं-
च खलुशब्दात संप्रत्युपेक्षितव्यातदेव विशेष्यते पन्त,
२०१॥
Jain Education Intera!
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276